________________
सूक्तमुक्तावली दामि । यदि सा सत्यं वक्ष्यति तदा तदर्थमहं यतिष्ये ।
इति तन्निगद्य तत उत्थाय स द्रुतं द्रौपदी-भवनमगमत् । तत्र गत्वा तत्सर्वं तस्यै निवेद्य यत्प्रष्टव्यमासीत्तदपृच्छत् । नारदोक्तं सर्वमाकर्ण्य द्रौपद्यवक्-हे महर्षे ! अहं किल त्वदग्रे सत्यं वच्मि । अहं सत्यशीलाऽस्मि, भर्तुः प्रतिज्ञां पूरयितुं शक्नोमि । अत्र मनागपि सन्देहं मा गाः । ततस्तां सोऽवक्-अयि पाञ्चालि! यद्येवमस्ति । तर्हि सत्वरमेकं शुष्कमामबीजं रोपय, निजशीलप्रभावेण तत्सपल्लवीकृत्य फलाढ्यं विधेहि।
___ ततः सापि तत्कालं तथा विधाय न्यगदत् - हे नारद ! जगद्विजयशालिवीरशिरोमणीन्पान्डवानेतान पञ्च विहाय मनो मेऽपरङ्कदापि स्वप्नेऽपि नेच्छति, एतेषु पञ्चस्वपि यद्दिने यस्य वारकं भवति तत्र दिने तमेव त्रिकरणयोगेन तोषयामि, तदन्यं नैव कामये, यद्येतद् वितथं न भवेत्, पुनर्मम सत्यशीलं भवेत्तर्हि आरोपितमेतच्छुष्कामबीजमकुरतां यातु, द्रुतमेधताम्, तूर्णं फलपुष्पादिसम्पन्नमस्तु । यथा मे भर्तृणां प्रतिज्ञापूरणं स्यात् । इत्यालप्य यावत्सा विरराम, तावत्तदारोपितं शुष्कमामबीजं सपल्लवतां दधत् कुसुमितम्फलाढ्यमजायत । ततस्तानि फलानि सद्यः पक्वान्यभूवन । ततस्तैः फलैस्तद्रसैश्च तानष्टाशीतिसहस्रतापसान् यथेच्छम्परिभोज्य पाण्डवा मुमुदिरे । शीलवती स्त्री किं किङ्कर्तुं न शक्नोति? ततोऽतिशीलमाहात्म्यं द्रौपद्याः पप्रथे। त्रिकरणशुद्धस्य तस्याः शीलस्य प्रत्यक्षमलौकिकं फलमालोक्य ते सर्वे तां तुष्टुवुः ।
118
-