SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली साहाय्यकारी को मिलितः ?। येनाऽस्य तत्कालं सिद्धिरुदियाय | ततः पर्यन्ते केवलीभवन् शाश्वतसुखकारी समभूत् । ततो विश्वविश्वजन्तूपकारविधाननिमग्नात्मा प्रभुरवक- यथा त्वङ्गतेऽहनि गजारूढः पथि व्रजन् पथि स्थितानीष्टकानि त्वत्सैन्यप्रतिबन्धभिया समुत्थापयतो यवीयसः कस्यचन द्विजस्य गजादुत्तीर्य साहाय्यमकरोः, अर्थात्त्वयैकस्मिन्निष्टके करेण गृहीते तदनु त्वत्सैन्यैः षोडशसहस्रैस्तानीष्टकानि तदिष्टदेशे नीत्वा तत्साहाय्यञ्चक्रे, तथैव त्वद्वन्धोरपि साहाय्यमभूत् । परन्तु तत्र कार्येऽस्ति भेदः । पुनयंगदत्कृष्णः - हे भगवन्! तस्य नाम ब्रूहि, य एवमकरोत् । भगवतोक्तम्, हे वासुदेव ! त्वदर्शनेन यस्य हृदयं स्फुटेत् सैव एतत्कर्मकर्ता ज्ञातव्यः । अथ प्रभुं नमस्कृत्य गृहम्प्राचलद्वासुदेवः । मार्गे च सोमिलो महामुनिघातकी पातकी च मिलितः, ततः श्मशानतो निर्गच्छन् कृष्णमालोक्य मनसि दध्यौ । अहो! एष वासुदेवो याति, अस्मदीयमेतत्कर्म जानन्नसौ मां हनिष्यति । अत एतन्मार्गं हित्वा मार्गान्तरेण व्रजेयमिति विचिन्त्य तथागमत् । परं तन्मार्गेणापि गच्छतस्तस्य वासुदेवविलोकनात्तत्कालमेव तद्धृदयं विदीर्णमजायत । सोऽपि सद्यो मृत्वा मुनिघातपातकान्नरकमियाय । एतस्याः कथाया एतदेव सारतया सर्वैरादेयम्, यदसौ सोमिलो गजसुकुमालमहामुनेः शिरसि खदिराङ्गारमक्षिपत् । तेन स महती वेदना सेहे | सर्वा अपि शरीरनाड्यस्तटतटिति त्रुटिता अभूवन् । तथापि लेशतोऽपि तस्मै द्वेषमकुर्वन क्षमामधिगच्छन्नसह्यामपि -115
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy