________________
सूक्तमुक्तावली वीक्ष्योवाच-अरे पापिष्ठ ! त्वं मम पुत्रीजन्म मुधाऽकरोः । तत्फलमधुना तेऽहं ददामि । इत्युदीर्य तत्कालमेव तटस्थतटाकतः पङ्कमानीय तस्य मुनेर्मौलौ पालीमबध्नात् । ततस्तदुपरि मृण्मयभाण्डखण्डानि न्यस्य ज्वलत्खदिराङ्गारं प्रचुरं निक्षिप्तवान्, स्वयमपि स दुर्धीस्तत्पार्श्वमेव तस्थौ ।
शमाऽम्भोनिधिर्गजसुकुमालमुनिः शिरसि ज्वलदग्निना 'तटतटिति' नाडीषु त्रुट्यन्तीष्वपि तत्क्लेशं सहमानस्तस्मै वशुराय सोमिलाख्यद्विजाय मनागपि न द्वेष्टि । प्रत्युत तत्कृतमहापकारमुपकारममन्यत । यथाऽसौ ममैतद्भवं निस्तारयन् परमसखाऽजायत । अग इव निश्चलमनाः सर्वमपि दुःखजालं सहमानो जीवेषु दयोद्रेकमातन्वानः क्षपकश्रेणीमधिगच्छन् शुद्धमध्यवसाययन् शुक्लध्यानं विदधत्पर्यन्ते केवलीभूत्वा मोक्षमाप्तवान् ।
इतश्च श्रीकृष्णः स्वमनसि तत्र निशि किलैवमचिन्तयत् - अहो ! मम बन्धुः संयमग्रहणेन महीयानभूत् । परमनेन लघुना वयसा कथमेवं संयमं पालयिष्यति । भवतु, प्रगे प्रभोरन्तिकं गत्वा तदुचितमुपायं विधातास्मीति ।
ततो जाते प्रभाते प्रभोर्वन्दनार्थमागतः कृष्णः सर्वान् साधूनालोक्य गजसुकुमालमपश्यन् भगवन्तमप्राक्षीत् - हे भगवान ! मम बन्धुर्गजसुकुमालः कुत्राऽऽस्ते । भगवानाख्यात् - हे कृष्ण ! सोऽक्षयसुखभोक्ताऽभूत् । तं द्रष्टुं कथं शक्ष्यसि ? तदीयदर्शनमधुना दुर्लभमभूत् । सिद्धिपदमुपेतं तमित एव नमस्कुरु । तदाकर्ण्य कृष्ण ऊचे हे भगवन् ! ईदृशीं तात्कालिकीं सिद्धिं स कथमाप ? । तस्य तथा
114