SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली वृद्धिङ्गतः । मयैकोऽपि न लालितः, न वा पालितः । इत्थं शोचन्तीं तां श्रीकृष्णः पप्रच्छ- अयि मातः ! त्वमद्य चिन्तातुरा कथं प्रतिभासि ? तव किञ्जातम् ? यदेवं शोकाकुला रोदिषि । तदा देवक्या निःश्वस्योक्तम्- हे वत्स ! मम कुक्षेः सप्त सुता उत्पेदिरे । परमेकस्यापि लालनपालनादिकं मया नाऽकारि । तेनेदृशी चिन्ता मे जातास्ति । तदाकर्ण्यस मातरमावासयामास । पश्चात्स्वयमष्टमं तपोऽकरोत् । तत्र हरिणैगमेषी समाराधितः। तदाराधनेन तुष्टः सोऽपि तत्कालमागत्य निजाराधनकारणं तमपृच्छत् । कृष्णोऽपि निजमातुः पुत्रचिन्तामवोचत । देवोऽवक-पुत्रो भविष्यति, परं प्रथमे वयसि संसारं त्यक्ष्यति । तत एतत्स्वरूपं स मातरमवोचत । यथा- हे मातः ! तव मनोरथः सेत्स्यति, मा शोचीः । तयोक्तम्-एवमस्तु । ततस्तस्याः कुक्षौ कश्चित्पुण्यशाली चरमशरीरजीवोऽवततार | सा तत्प्रभावतः स्वप्ने गजमपश्यत् । ततः पूर्णे मासे सा पुत्रमसोष्ट । स्वप्नानुसारेण तस्य गजसुकुमाल इति नाम चक्रे । एवं च महान्तं तदीयजन्मोत्सवं विदधे । क्रमेणाष्टवार्षिकः स तन्नगरीयसोमिलब्राह्मणस्य पुत्र्या सह परिणायितः । तदैव तत्र नेमिनाथो भगवान् समवसृतः । तद्वन्दनायै श्रीकृष्णदेवकीप्रभृतयः सर्वे तत्राऽऽययुः । तत्र देवविरचितसमवसरणे प्रभुः संसारासारत्वविषयिणी देशनामदात् । तदाकर्ण्य गजसुकुमालस्य वैराग्यमुदपद्यत । ततो मात्रादेरनुमत्या स तदैव प्रभोः समीपे संयम जग्राह । तस्यामेव निशायां प्रभुं पृष्ट्वा श्मशानभूमिमागत्य कायोत्सर्गध्यानमकरोत् । तावत्तत्र तस्य श्वशुरः सोमिलोऽपि समागतः । स तं - 113
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy