________________
सूक्तमुक्तावली च सीतामपश्यन् भृशमखिद्यत । तावता लक्ष्मणोऽपि शत्रुञ्जित्वा समायातः । ततस्तौ सर्वत्र सीतां मृग्यमाणौ पथि जटायुं छिन्नपक्षं मुमूर्षुमपश्यताम् । रामस्तं नमस्कारमहामन्त्रमश्रावयत् ।
सीतां हृत्वा विमाने तामारोप्य लङ्कामानीय देवरमणोद्याने तां स्थापितवान् रावणो बहुधा सीतायाः प्रार्थनामकरोत् - अयि सुभगे ! अहं ते दासोऽस्मि । तस्मिन् क्षुद्रे मानुषे रामे प्रीतिं त्यज माञ्च भज, एतां मेऽखिलां समृद्धिं भुङ्क्ष्व । एवं बहुलोभितापि सीता तत्र षण्मासं स्थिता शीलं नामुञ्चत् । केवलं राममेव ध्यायन्ती कालं निनाय ।
इतश्च सीतां गवेषयन्तौ रामलक्ष्मणौ किष्किन्धामुपागतौ । तत्र च तौ सुग्रीवादिप्रमुखाः कपयो भक्त्या प्रणेमुः । सर्वे च तावसेवन्त । हनुमांश्च लङ्कामागत्य सीतां निरामयां तत्राऽऽलोक्य तया सहालप्य तयोक्तं सन्देशमादाय रामलक्ष्मणौ जगाद । ततोऽसंख्यवानरचमूसहितौ रामलक्ष्मणौ लङ्कामाययतुः । तदा रावणो भृशञ्चुकोप ।
I
तत्रावसरे विभीषणो दशाननमेवमवक् - हे राजन् ! रामाय सीतां देहि, परदारापहारो महादुर्गतौ पातयति । अधर्माद्राज्यमपि विनश्यति । त्वं नीतिमान् भूत्वाऽप्यन्यायं कथामाश्रयसे ? । अनेन कर्मणा समुज्ज्वलमिदं कुलं मा कलङ्कय । इदानीमपि किमपि न गतं सीतां तस्मै प्रत्यर्पय । यद्येवं न करिष्यसि, तर्हि सीताकृते नूनमेतत्कुलं विनङ्क्ष्यतीति ज्ञानिभाषितं सत्यं भविष्यति । अतोऽहं प्रार्थये - कुलोच्छेदनकरीं सीतामेनां मुञ्च । पुरा यदुक्तं त्वया मया हृत्वाऽत्राऽऽनीता सीतास्ति सा मां भजति । रामलक्ष्मणावतिदुर्बलौ यद्यत्राऽऽगमिष्यतस्तदा तौ निहनिष्यामि । परं तौ न्यायवन्तौ
106