________________
सूक्तमुक्तावली महाबलवन्तावसंख्यसैन्ययुतौ युद्धायाऽत्राऽऽगतौ । त्वमन्यायं कुरुषे षण्मासान यावत्त्वं सीतायाः प्रार्थनामकरोः, सा तु महासती त्वयि दृक्कोणमपि नाऽदत्त । कतिधा तया तिरस्कृतोऽपि त्वं ततो न व्यरमः। सा कदापि तव वशगा न भविष्यति ।
इति श्रुत्वा रावणपुत्र इन्द्रजित्तमेवमवादीत् - हे पितृव्य ! त्वं, जन्मतः कातरोऽसि । यतस्त्वमिन्द्रादीनां सर्वेषां जेतारं सर्वसम्पन्निधानं मत्पितरमेवं किं ब्रूषे ?। ससैन्यस्याऽत्राऽऽगतस्य विपक्षस्याति पक्षं नीत्वा मम पितुः कीर्तिं किं कलङ्कयितुमिच्छसि?। तदा विभीषणोऽवक्अहं हि विपक्षपक्षमाश्रित्य न ब्रवीमि । केवलं न्यायदृष्ट्या हितं वच्मि । नूनमत्र कुले कुलाङ्गारायसे त्वमेव । हे बान्धव! त्वमनेन निजकर्मणा पुत्रोपदेशेन चाऽचिरादेव विनाशमुपेष्यसि । अतोऽहमेवं खिद्ये ।
अथैतदाकाऽतिक्रोधातुरो रावणः खड्गमुद्यम्य विभीषणं हन्तुमधावत् । तदा कुम्भकर्णादयो मध्ये भूत्वा तन्ततोऽरक्षन् । रावणोऽवक, रे दुष्ट ! त्वमधुनैव मम नगरादपसर त्वं नूनमग्निवत्सर्वाशी प्रतिभासि । ततो बान्धवमप्यन्यायरतं रावणं त्यक्त्वा चैकादशाक्षौहिणी राक्षसी सेनां लात्वा विभीषणो रामममिलत् । ततो रामरावणयो रणः प्रावर्तत । प्रान्ते न्यायनिष्ठो रामो विजयमाप | अन्यायरतो रावणो मृत्युमासादितवान् । विस्तरस्तु जैनरामायणादिग्रन्थेभ्यो बोद्धव्यम्।
अथ न्यायधर्मविषयेहय गय न सहाई युद्ध कीर्ति सदाई,
107