________________
सूक्तमुक्तावली तंप्रति वक्तुमुपक्रान्ता। तदाशयं विज्ञाय तेनाऽपि तदर्थ सा रामान्तिके प्रेषिता। रामोऽपि तां वीक्ष्याऽवोचत- हे सुन्दरि! मम तुस्त्री वर्तत एव तस्य नास्ति तमेव भजस्व, एवमनेकधा ताभ्यां वञ्चिता क्रुद्धा सा निजस्थानमेत्य निजपतिं खरदूषणं पुत्रवधस्वरूपमाचख्यौ । ततो रुष्टः खरदूषणस्तत्कालं ताभ्यां योद्धुमाययौ । इतश्च तं तदर्थमागतं वीक्ष्य सत्यवसरे मया सिंहनादविहिते त्वयाऽऽगन्तव्यमिति राममभिधाय सीतारक्षाकृते रामं तत्रैव मुक्त्वा लक्ष्मण एकाक्येव तेन सह युद्धाय चचाल।
ततो लक्ष्मणखरदूषणयोयुद्धं प्रववृते । शूर्पणखा चरावणान्तिकमेत्यतं सीतासौन्दर्य सविस्तरमाचष्ट, तन्मुखात्सीताप्रशंसामाकर्ण्य तद्रूपमोहमुपेतः स तत्कालमेव तां हर्तुं तत्रागात् । परं तत्र रामतेजसा ज्वलत्तदाश्रमं प्रवेष्टुं स नाऽशक्नोत् । तदा सोऽवलोकनी विद्यां सस्मार | सा समागत्य तमूचे- हे दशानन ! किमर्थमहं त्वया स्मृता । तेनोक्तम्- रामोऽन्यत्र यथा गच्छेत्तथा कुरु । तयोक्तम्-यत्र लक्ष्मणो युध्यते तत्र गत्वा तद्वत्सिंहनादं विधेहि, ततः स सीतां विहाय तत्र गमिष्यति।
ततो रावणस्तत्र गत्वा तथाऽकरोत, इतश्च लक्ष्मणसिंहनादमाकर्ण्य सीता व्याकुलीभूय तद्रक्षाकृते रामं तदन्तिकं प्राहिणोत् । तस्मिन्नवसरेऽसहायां सीतामवलोक्य रावणस्तामापाहरत् । जटायुपक्षिणा बहु प्रतिकृतं, किन्तु रावणेन तत्पक्षौ छिन्नौ ।
अथ तत्र गत्वा केनाऽप्यन्येन मायाविना सिंहनादोऽकारीति मन्यमानो मनसि सीतां शङ्कमानो रामः सत्वरं पर्णकुटीमागात् । तत्र
105
सस्म