________________
सूक्तमुक्तावली ल्याकैकेयीसुमित्रादयः पट्टराज्ञ्य आसते । तासां रामभरतलक्ष्मणशत्रुघ्ननामानः पुत्रा बभूवुः । निजस्वयंवरे दशरथस्य हरिवाहनादिप्रतिपक्षिभूपैः सह रणे जायमाने दशरथस्य सारथ्यमकरोत्कैकेयी । तत्र निजनैपुण्यं दर्शयन्ती राजानं दशरथं तथा तोषयामास, यथा स सकलाऽरीन् विजित्य तामवोचत् - अधुना त्वि प्रसन्नोऽस्मि, त्वं प्रार्थय यदीप्सितं ते भवेत् । तयोक्तम्- प्रार्थयिष्ये साम्प्रतं तिष्ठतु भवान् ।
यदा रामचन्द्राय राज्यं दातुमैच्छद्राजा तदा कैकेयी प्राक्प्रार्थितं वरं स्मरन्ती सा तत्राऽवसरे राजानं विज्ञप्तवती - पुरोक्तं वरमधुना देहि । राजोवाच- प्रकाश्यतां सः । तदा साऽवक्- हे राजन् ! एतद्राज्यं भरताय दीयताम्, रामचन्द्राय च वनवासो दीयताम् । इत्याकर्ण्य राजा भृशमखिद्यत, ततो रामो लक्ष्मणेन सीतया च सह पितुर्नियोगाद्वनं ययौ ।
अथैकदा तत्र वने रावणभगिन्याः शूर्पणखायाः शम्बूकनामा पुत्रः सूर्यहासखड्गसिद्धिकरीं विद्यां साधयन्नासीत् । षड्भिर्मासैस्तस्यां सिद्धौ तत्र चेतस्ततः पर्यटन लक्ष्मणः समागत्य तं सिद्धिविशिष्टं खड्गमपश्यत् । तेनैव खड्गेन कञ्चन वंशजालमकृन्तत्तैक्ष्ण्यपरीक्षाकृते । ततस्तत्र स्थितस्य विद्यां साधयतस्तस्य शिरच्छिन्नं वीक्ष्य लक्ष्मणो भृशमतप्यत, तावत्तन्माता शूर्पणखा तत्पारणाकृते भोजनसामग्रीं लात्वा तत्राऽऽगतवती । तथावस्थं पुत्रमालोक्य शोकसन्तप्ता तद्विघातारं विपक्षं शोधयन्ती तत्राऽऽगता ।
लक्ष्मणमालोक्य तत्कालं मदनशरजालविद्धा सा कामुकीभूय
104