________________
सूक्तमुक्तावली
सेति लोकमुखाद्विज्ञाय गिरिवननगरादिषु तामन्वेषयन्नपि यदा सा न मिलिता तदा, प्रियाविरहमसहमानः स चिताप्रवेशमवधारितवान् ।
एतत्स्वरूपमञ्जनासुन्दरी स्वगवेषणकृते तत्प्रेषितविद्याधरमुखाद्विज्ञाय निजमातुलं प्रतिसूर्यनामानं सार्थं कृत्वा विमानमारुह्य तत्क्षणं तत्राऽऽययौ यत्र पवनञ्जयश्चिताम्प्रवेष्टुमुदयुङ्क्त । तत्र प्रह्लादप्रतिसूर्यप्रमुखाः सर्वे मिलिता । भर्तारं कुशलं वीक्ष्य सा भृशममोदत । सर्वे च तस्यां निःशङ्कमनसो बभूवुः । अञ्जनायाश्च लोके शीलमाहात्म्यं प्रख्यातमभूत् । पतिप्रह्लादयोऽपि कृताऽपराधं तदानीं तां क्षमयामासुः । दुर्जना गुणवते दोषाननेकान् ददति । परमेतेन गुणिनां सन्तो गुणा न हीयन्ते किन्तूपचीयन्त एव । निर्मलशीलप्रभावेण मिथ्याकलङ्कतो मुक्ता दहनसन्तापिता कनकलतिकेव साऽञ्जना भृशं दिदीपे ।
अथ सज्जनगुणविषये
गुण गहि गुण जेमां ते बहू मान पावे, नर सुरभि गुणे ज्यूं फूल शीशे चढाये । गुण करि बहु माने लोके ज्यूं चंद्रमाने, अति कृश जिम माने पूर्णने त्यूं न माने
॥१५॥
यथा मनुष्याः सुगन्धियोगात्कुसुमानि शिरसि धारयन्ति, तथैव गुणग्राहिणो जनाः शिरोधार्या लोके बहुमानं लभन्ते । किञ्चगुणग्राहिणो जनाः कृशतमा अपि द्वितीयाचन्द्रवत्सर्वैर्नमस्क्रियन्ते । तद्विहीनस्तु परिपूर्णोऽपि पार्वणचन्द्रवत् कैश्चिदपि कलङ्कित्वान्न नम्यते।
101