________________
सूक्तमुक्तावली विदन्तस्तां कुलकलङ्किनीं मन्यमाना निर्भर्त्स्य गृहान्निष्काशयामासुः । ततः सर्वतो निष्काशिताञ्जनासुन्दरी वनमागत्य कुत्राऽपि तस्थौ । तत्रैव कुत्रापि गह्वरे पुत्रमसोष्ट ।
अथैकदा तेनैव मार्गेण विमानारूढस्तन्मातुलो व्रजन् गिरिगह्वरे शिशुरोदनमाकलय्य विमानादवतीर्य तत्र गत्वा तामपश्यत् । तस्या आदितः सर्वमुदन्तं निशम्य सपुत्रां तां निजविमाने समावेश्य ततोऽग्रे चचाल । मार्गे च मातुरके स्थितः शिशुः किञ्चिल्लातुमुच्छलन्नधः शिलोपरि पपात। पतन्तं तं वीक्ष्य व्याकुलस्तन्मातुलो यावद्विमानादवतीर्य तमादातुमधस्तत्रागतः, तावत्तत्र वज्राहतवच्चूर्णितां शिलां पश्यन् बालकमक्षताङ्गमेव हसन्तमग्रहीत् । ततस्तमादाय निजविमानेऽञ्जनायै ददौ । ततस्ताभ्यां सह सहनुपुराभिधं निजनगरमागतः । ततस्तदीयनाम मात्रा हनुमानिति चक्रे । विमानात्पतन् स शिलां सञ्चूर्णितवान्, अतो द्वितीयं नाम श्रीशैल इति धृतवती । एतत्कथा रामचरित्रादौ सविस्तरमस्ति । इतोऽधिका तत एवाऽवगन्तव्या । इह तु यावत्युI पयोगवती तावत्येव संक्षेपेण तत्कथा दर्शिताऽस्ति ।
अथाऽञ्जनासुन्दरी तत्र हनुपुरे मातुलगृहे निवसन्ती पुत्रस्य हनुमतः पोषणादिकं विदधती मातुल्यादिकृतसत्कारेण सुखेन दिनान्यत्यवाहयत् । पतिप्रस्वा दत्तकलङ्कतः कदा मे मुक्तिः स्यादिति मनसि विचिन्तयन्ती पत्युरागमनमिच्छन्ती तस्थुषी ।
अथ पवनञ्जयकुमारस्तत्र गत्वा वरुणेन सह दशकन्धरस्य सन्धिं विधाय निजादित्यपुरमागतवान् । तत्र निजप्रेयसीमञ्जनामदृष्ट्वा लोकमप्राक्षीत् । ताङ्गर्भवतीमालोक्याऽसतीति ते मात्रा गृहान्निर्वासिता
100