________________
सूक्तमुक्तावली चिन्तयति - वयः स्वल्पमपि पथ्यं भवति, तक्रं च प्रचुरमपि क्षीरतुल्यं यथा न भवति, तथा स्वल्पजीविनाऽपि चरमशरीरिणा विद्युत्प्रमेण संयोगः श्रेयानस्ति । परमीदृशं भाग्यं मम नास्ति । येन तत्समागमो जायेत । पवनञ्जयो दीर्घायुर्भूत्वाऽपि यदि कुसङ्गतिकारी भवेत्तर्हि महादुःखिनी स्यामित्यादि विचिन्तयन्ती किञ्चिद्विच्छायवदनाऽऽसीत् साऽञ्जना।
इतश्च माहेन्द्रो राजा पवनञ्जयकुमारेण सह तस्या विवाह निश्चितवान् । प्रह्लादराजोऽपि कन्यायारूपगुणादिकमाकर्ण्य स्वपुत्रस्य योग्याऽञ्जनासुन्दरीतिमनस्यवधारितवान् । पुनः स्वपुत्राय तामञ्जनासुन्दरीं ययाचे । तत उभाभ्यां प्रधानादिजनम्प्रेष्य दिनावधारणञ्चक्रे | तत्राऽन्तरे पवनञ्जयः प्रहसितनामानं निजमित्रमेवमाख्यत्-भो मित्र! मम परिणयनमञ्जनासुन्दर्या सह निर्धारितवान् पिता | सा कीदृशी वर्तते? त्वया सा दृष्टास्ति । सोऽवक्-भो मित्र! सात्वप्सरसोऽप्यधिका वर्तते रूपलावण्यादिगुणैः । तस्याः सौन्दर्यसम्पत्तिगुणांश्च कवयोऽपि यथावद्वर्णयितुं नैव क्षमन्ते । इत्थं तत्प्रशंसां वयस्यमुखादाकलय्य सोऽवादीत- भो वयस्य ! उद्वाहदिवसो दूरे वर्तते । तावदेव तां वीक्षितुमुत्सुकं मम मनो भृशं वर्तते । केनाऽप्युपायेन तत्साधय ।
ततस्तेन सह पवनञ्जयो निश्यञ्जनासुन्दरीनिवासमन्दिरमेत्य गवाक्षजालेन तां वीक्षमाणौ तस्थतुस्तावलक्षितौ । तत्राऽवसरे काचिद्वसन्ततिलका नाम्नी दासी तामेवमुवाच-अयि स्वामिनि ! तव पवनञ्जयः पतिः स्यादिति धन्याऽसि । पुनर्मिश्रकेशी सखी तामूचे - अरे! चरमशरीरमपि विद्युत्प्रभ कुमारं विहायाऽन्यं वरं किं वर्णयसि?
96
-