________________
सूक्तमुक्तावली
प्रदत्तानि । इत्याश्चर्यकरीं चमत्कृतिं पश्यन्तः सर्वे सभ्यास्तां प्रशंसन्तो राजानमनुनीय मोचयामासुः । ततस्तन्मुक्ता समागत्य पाण्डवैः सह सङ्गताऽभवत् । सती - द्रौपदीशीलप्रभावादेव पाण्डवानामियती महती यशःकीर्तिर्लोके विस्तृता । अहो ! स्वाङ्गाद्वस्त्राऽऽकर्षणादिदुःसहमाना सा द्रौपदी मनागपि सज्जनतां न जहौ । मनसि मालिन्यमानीय तस्मै दुर्योधनाय नो चुकोप । एनां कथामाकर्णयद्भिरन्यैरप्येवमेव कर्तव्यम् ।
२१- पुनरपि सज्जनतोपरि अञ्जनायाः प्रबन्धः -
इह हि भरतक्षेत्रे सागरसमीपे दन्तिपर्वतोपरि महेन्द्राऽभिधाननगरमस्ति । तत्र माहेन्द्रनामा विद्याधरो राजाऽस्ति । तस्य सुन्दरीनाम्नी पत्न्यस्ति । तस्याः कुक्षेश्शतपुत्राणामुपरि पुत्र्येकाञ्जनासुन्दरी समुत्पेदे । तामुद्वाह्यामालोक्य तत्पित्राऽनेकेषां विद्याधरराजकुमाराणां चित्राणि समानीय तस्यै दर्शितानि । तत्र हिरणाभविद्याधरराजस्य सुमतिकुक्ष्युद्भूतविद्युत्प्रभकुमारस्तथा वैताढ्यपर्वतीयाऽऽदित्यनगरीयविद्याधरराजप्रह्लादस्य केतुमतीकुक्षिजातः पवनञ्जयकुमारस्तस्या अनुरूप आसीत् । एतौ विद्यावन्तौ गुणवरौ रूपलावण्यधनसम्पन्नौ स्तः ।
तदा राजा मन्त्रिणमपृच्छत्-भो मन्त्रिन् ! अनयोर्मध्ये कतरस्मै कन्या देया ?। मन्त्री वक्ति - हे राजन् ! विद्युत्प्रभस्त्वष्टादशवर्षाणि जीवितो भूत्वा मोक्षं यास्यति । इति नैमित्तिकोक्तं श्रूयते । अतो दीर्घायुषे पवनञ्जयकुमाराय कन्यां देहि । इत्याकर्ण्य साऽञ्जना
1
95