________________
सूक्तमुक्तावली अथैकदा दुर्योधनो दुर्धिया सरलमतिकं युधिष्ठिरं द्यूतक्रीडां कर्तुं विज्ञप्तवान् । निर्मलात्मा धर्मराजोऽपि तद्वचः स्वीचक्रे | ततः सभायां तौ युधिष्ठिरदुर्योधनौ रन्तुं प्रववृताते । खलीयान् दुर्योधनः प्रथममेव कपटेन स्वानुकूलेऽक्षे पतिते तञ्जित्वा तदीयम्प्राज्यं राज्यमग्रहीष्ट | राज्ये हारिते पुनर्दीव्यतस्तस्य वसनाऽऽभरणादीनि पणीकृतानि कपटलीलयाऽऽत्मानुकूलमक्षान् निपात्य सोऽप्यऽग्रहीत् । इत्थम्भवितव्ययोगात्पाण्डुसूनुद्रौपदीमतिप्रेयसीमपि हारितवान् । ततः पञ्चाऽपि बन्धूंस्तान राज्यं त्यक्त्वा वने निवसितुमादिष्टवान् दुर्योधनः।
अथ तेऽपि तदैव वनाय प्रतस्थिरे । तत्राऽवसरे द्रौपद्यपि तैः सह चचाल । तस्मिन् समये दुर्थीदुर्योधनो दुःशासनमुवाच-भो भ्रातः ! इयमपि द्रौपदी पाण्डवाज्जिता ममैवाऽभूदत एनां यान्तीमवरोधय । तदादिष्टः स तत्पार्धमागत्य तामेवमवादीत् - अयि द्रौपदि ! त्वमस्माभिर्जिताऽसि पाण्डवानुगामिनी कथं बुभूषसि ? निवर्तस्व, अस्माकम्प्रेयसीभूय सुखं भुक्ष्व, इत्युदीर्य कचग्राहं तां दुर्योधनान्तिकमानीतवान् । तत्र स्थितां तां दुर्योधन ऊचे - हे सुन्दरि ! तत्र किन्तिष्ठसि ? मम वामाङ्काधिरोहिणी भव । वज्रायितं तदाकर्ण्य दिङ्मूढा सा तत्रैव मौनमाश्रित्य तस्थौ । अत्राऽवसरे दुःशासन उत्थाय तस्याश्चीरमाचकर्ष, परं महासतीशीलमाहात्म्यात्तत्क्षणं तदङ्गानि शासनदेवता वस्त्रेण समावृणोत् । आकृष्टेऽपि दुःशासनेन तद्वस्त्रे लोकैरनावृतं तदङ्गम्नाऽलोकि । इत्थं सहस्रशो दुःशासनस्तद्वसनमाकृष्टवान् । देवता च नवनवैर्वसनैः समावृणोत् । किमधिकं बुवे, यावन्ति वसनानि तेनाऽऽकृष्टानि तावन्ति शासनदेव्या तस्यै
94
-