________________
सूक्तमुक्तावली शृङ्गारसज्जितां विधाय कौशेयाऽतिसूक्ष्मशाटिकां परिधाप्य सदसि पितुः पार्थमप्रैषीत् । तामागतां वरयोग्यां पुत्री ज्ञात्वा राजा तामपृच्छत् - हे वत्से ! त्वं मदिच्छया स्वेच्छया वा वरिष्यसीति ब्रूहि ?। इति राज्ञः प्रशूमाकर्ण्य जगाद-हे तात! यो राधावेधं साधयिष्यति तमेव वरिष्यामि | इति पुत्रीवाक्यं निशम्य राजा प्रधानादिपरिवारैः सह तामात्मपुत्री शुभदिवसे तदर्थमिन्द्रपुरनगरे प्रेषयामास ।
तामागतामाकर्येन्द्रदत्तो राजा तस्यै निवासाय सप्तभूमिकं रमणीयं भवनं दत्तवान् । अन्यदपि यथोचितं स्वागतं व्यधात् । अथ राजकुमार्या सहाऽऽगतेन मन्त्रिणा तत्रत्यराजानं प्रत्युक्तम् - हे राजन् ! तव बहवः शुभाः कुमारा गुणवन्तः श्रूयन्ते । अतः कन्यैषा स्वयंवराऽत्र मम राज्ञा प्रेषिता । अस्याश्चेदृशः पणो विद्यते । यथा-यो हि राधावेधङ्करिष्यति, तमहं वरिष्यामीति । अतः सत्वरमेतत्सम्पाद्य निजपुत्रेणाऽस्याः पाणिपीडनं कारय ।
तत इन्द्रदत्तो राजा निजपुरे सर्वत्र तन्महोत्सवं व्यधत्त । अत्युत्तमं स्वयंवरमण्डपं नानाचित्राद्यलकृतं रचयामास | मध्ये च राधावेधाय महानेकः स्तम्भः स्थापितः । तस्य मूर्ध्नि स्थापितानि चत्वारि चक्राणि प्रगुणानि तावन्ति चैव विपरीतानि भ्रमन्ति । तेषां मध्यगा राधा नाम्नी पुत्तलिका कृता । तस्या वामनेत्रं काणमकरोत् । स्तम्भोपरि तान्यष्टचक्राणि तथाऽतिष्ठिपत् । यथा तेषां मध्यगो भूत्वैव बाणो राधाचक्रं विध्येत् । अधश्च तदभिमुखं सन्तप्ततैलभृतं लोहकटाहममुञ्चत् । तस्मिन् दृष्ट्वैव धनुर्धरेण लक्ष्यं भेद्यम् ।
इतश्च दिव्याम्बरा महार्हरत्नाभरणाऽलङ्कृता सा राजकुमारी
89