________________
सूक्तमुक्तावली पञ्चवर्णसुरभिकुसुममालां निजपाणिपल्लवे दधाना वयस्याभिः सह तत्र स्वयंवरमण्डपे समागत्य तस्थौ । सर्वे च राजपुत्राः पौरजनैः सह धृतोज्ज्वलवसनाऽऽभरणास्तत्रागताः स्वस्वयोग्यमासनमलञ्चक्रुः । इन्द्रदत्तराजाऽपि प्रधानादिनिजमण्डल्या सह तत्राजगाम ।
तत एकैकशः कुमारा धनुर्बाणधरा राधाचक्रं वेद्धुं लग्नाः, परन्तु कियन्तस्ते चक्रद्वयं विव्यधुः कियन्त एकमेव, अन्ये चक्रत्रयम्, कश्चिच्चत्वारि केचन पञ्चचक्राणि कश्चन षट्चक्राणि च विव्याध । इत्थं तेषामेकोऽपि कुमार एकदैवैकेनैव बाणेन तच्चक्राष्टकमाविध्य मध्यस्थां राधां वेद्धुं यदा न शशाक, सर्वे च कृतप्रयत्नास्ते द्वाविंशतिराजपुत्रा विच्छायवदना हताशा अभूवन् । तदा राज्ञो महती चिन्ता जाता । यथा
7
अहो ! ममैतेषां पुत्राणां शौर्यादिगुणगणमाकर्ण्य स्वयंवरेयं राजकुमारी मम सभामागताऽस्ति । तस्याश्च पणः केनाऽपि मत्पुत्रेण नाऽपूरि । सेयमितो यदि परावर्त्स्यति, तर्हि जगति ममाऽपकीर्तिर्महती भविष्यति । इत्थं शोचन्तं विच्छायवदनं राजानं मन्त्री जगाद - हे प्रभो ! मा शोचीः पुनस्तवैकः सुपुत्रो वर्तते । सोऽवश्यमेतत्साधयिष्यति । राज्ञोक्तम्-कोऽस्ति सः ? तत्राऽवसरे प्रधानेन तत्पत्रम्प्रदर्शितङ्कथितञ्च पूर्वजातं विवाहादितत्पुत्रजन्मपर्यन्तमखिलं वृत्तम्। पत्रदर्शनेन तत्सर्वं मनसि स्मृत्वा तेनोक्तम् - समानयतु तमंत्र ।
T
तदा नृपादेशेन तत्रागतः सुरेन्द्रदत्तो यथाविधि पितरम्प्रणम्य तत्साधने प्रावर्तत । कलाकुशलः स तदानीं धनुषि बाणं संयोज्योपरिकृतहस्तस्तैलभृतकटाहमध्ये वीक्षमाणो भ्राम्यच्चक्रप्रतिबिम्बमभि
90