________________
सूक्तमुक्तावली राज्ञा पृष्टः कश्चिदेवमवदत् - हे महाराज ! इयं मन्त्रिपुत्र्यस्ति, यां परिणीय भवान् तत्याज । तच्छ्रुत्वा सर्व स्मृत्वा तद्रात्रौ तस्या अन्तिके स्थित्वा तां कामं सुखयामास । तदैव भाग्ययोगेन कश्चित्पुण्यवाञ्जीवस्तस्या गर्भेऽवततार | जाते च प्रभाते राजा तामापृच्छ्य निजालयमागात् । साऽपि सर्वं नैशिकं नृपागमनादिवृत्तं मातरमवदत् । तन्माता च तत्स्वरूपं मन्त्रिणमवोचत । तदाकर्ण्य हृष्ट: स मासतिथिवारादिकं सर्वं लिखित्वा तत्पत्रं सुरक्षितवान् ।।
___ अथ दशमे मासे सा शुभे लग्ने गुर्वादिग्रहगणे तुङ्गताङ्गते पुत्रम्प्रासोष्ट | तस्य नाम सुरेन्द्रदत्त इति पप्रथे । स शिशुश्चन्द्रांशुरिव समेधाञ्चक्रे | यदा सोऽष्टवर्षीयाञ्जातस्तदा कलाचार्यान्तिके पठितुं लग्नः । असौ च गुरोः पार्थे विनयेन तदुक्तं सर्वमपि पपाठ | तस्यैव कलाचार्यस्य निकटे तदन्येऽपि द्वाविंशतिराजपुत्रा राज्ञा प्रेषिता आगच्छन्ति, परंते समुद्धता मन्दधियो निर्भीकाः किमपि न पेठुः । यदा कलाचार्यस्तान् निर्भर्त्सयति शिक्षते किमपि वा तदा तेऽपि तं राजपुत्रत्वान्नेत्रकोणं दर्शयन्ति । गुरुशिक्षाः का अपि न मन्यन्ते । सदैवाविनयेनैव वर्तन्ते । तदा गुरुरपि तानयोग्यान मत्वा तेषु मन्दादरो बभूव । सुरेन्द्रदत्तस्तु बुद्धितैक्ष्ण्याद् भवितव्ययोगाच्च सम्पूर्णकलासु सकलासु विद्यासु चाऽद्वितीयो विचक्षणो जातः । राधावेधनकलायान्तुस महानिपुणः कृतस्तेन गुरुणा। ततः प्रधानस्तस्मै कलाचार्याय सत्कारसम्मानादरपूर्वकं प्रचुरधनादिकं ददौ ।
इतश्च मथुरानगर्यां जितशत्रो राज्ञश्चतुष्पष्टिकलाप्रवीणा भर्तृसेना क्वचिन्निवृत्तीत्यपराभिधाना कन्या वर्तते । ताच्चैकदा माता षोडश
88