________________
सूक्तमुक्तावली
योरित्यहं नो वेद्मि । स वक्ति- साधो ! स्वप्रैक्ये सत्यपि गुरुभेदात्फलभिन्नताऽभूत् । यतो हि लोको गुर्वनुसारि ज्ञानमधिगच्छति, फलञ्च भक्त्यनुसारि लभते ।
इति मूलदेवराज्ञो वाक्यमाकर्ण्य तत्स्वप्नं पुनर्लब्धुकामेन स संन्यासिशिष्योऽनेकवारं तत्रैव सुष्वाप । पुनर्यदि मे तादृशः स्वप्नो भविष्यति तदा तत्फलं तमेव निमित्तज्ञं पृष्ट्वाहमपि राज्यं लप्स्य इति धिया, परन्तु तत्स्वप्नस्तस्य बहुधा यतमानस्याऽपि पुनर्नैवाऽभूत् । सर्वथा दुष्प्रापोऽपि तादृशः स्वप्नो देवताद्यनुकम्पनवशाल्लोके प्राप्तुं शक्यते, किन्तु यदिदं मानुष्यं महता पुण्यनिचयेनाऽधिगतं भूत्वा मुधा गच्छति तत्पुनः सहस्रशो यत्ने कृतेऽपि पुनर्लब्धं न भवितुमर्हतीति विचिन्त्य भव्यैर्जनैर्धर्मे प्रमादं विहाय सदैव यतितव्यमिति ।
१६ - मनुष्यत्वदौर्लभ्ये चक्रस्य दृष्टान्तं दर्शयति (सप्तमः ) -
तथाहि - इन्द्रपुरे नगरे इन्द्रदत्ताभिधानो राजा वर्तते, तस्य द्वाविंशतिपुत्रा सन्ति । अथैकदा बहिर्गच्छन् राजा प्रधानपुत्रीमतिI रूपवतीं तरुणीमालोक्य तस्यामासक्तोऽभवत् । पश्चान्निजमन्त्रिणमाकार्य तत्पुत्रीं ययाचे । ततो मन्त्री राज्ञे पुत्रीमदात् । राजा च ताम्परिणीय दुर्दैवयोगात्तत्कालमेव तामत्यजत् । तेन सा दैवं निन्दन्ती स्वशीलं रक्षन्ती पित्रालय एव तस्थौ ।
|
पुनरेकदा तेनैव पथा निर्गच्छद्राजा ताम्परित्यक्तां ऋतुस्नातामट्टालिकायां गवाक्षसन्निधावुपविष्टां निजपत्नीमपश्यत् । तत्राऽवसरे
87