________________
सूक्तमुक्तावली भिक्षार्थं प्रविष्ट: । केनचिच्छद्धावता तस्मै योग्यम्प्रचुरम्भोज्यं दत्तम् । तदादाय तटाकोपरि स्नानादिकं विधाय यावदोक्तुमैच्छत् तावत्तत्र तद्भाग्ययोगान्मासक्षपणः कश्चिन्मुनिः पारणायै समायातः । ततो महता हर्षेण स तस्मै तत्प्रासुकं भोज्यं ददौ । गते च तस्मिन् स्वं सत्पात्रदानेन धन्यममन्यत । पश्चात्स्वयमपि तदभुङ्क्त । तत्राऽवसरे वनदेवता प्रत्यक्षीभूय तमवोचत - हे भव्य ! त्वयाऽद्य साधवे दानं दत्तम्, अनुमोदितञ्च, अतस्तुष्टाऽहं ते वरं दातुमिहागताऽस्मि । अत ईप्सितकिमपि याचस्व, यत्ते ददामि, तेनोक्तम्- हे देवते ! यदि तुष्टा किमपि मे दातुमीहसे तर्हि राज्यादिकं देहि । तदेवंधन्नाणं खु नराणं, कुम्मासा हुंति साहुपारणए । गणिअं च देवदत्तं, रज्जं च सहस्सं च हत्थीणं ॥१॥
तयोक्तम्- हे भद्र ! मया तत्ते दत्तम् । इत्युक्त्वा साऽदृष्टाऽभूत ।
इतश्च सप्तमे दिवसे संजाते तत्रत्यराज्ञोऽपुत्रस्य मरणे प्रधानैर्विहितानि पञ्चदिव्यानि गज-तुरग-छत्र-चामर-कलश-लक्षणानि सञ्जातगीतनृत्यादिमहोत्सवपुरःसराणि सकलं पुरं भ्रान्त्वा यत्र मूलदेवः सुप्त आसीत्तत्रागत्य गजराजस्तत्कण्ठे मालां न्यधात् । अथेन हेषितम्, छत्रं तदुपरि धारितम्, चामरो वीजितः, कलशस्तमभिषिक्तवान् । ततः सर्वे लोका जयजयशब्दं कुर्वन्तस्तं गजारूढं कृत्वा राजमन्दिरमानीय राज्यसिंहासने स्थापयामासुः । ___अथ मूलदेवो राजा तं शिष्यमाकार्य पप्रच्छ - किं भोः ! तदेव स्वप्नं दृष्ट्वा मया राज्यं लब्धम् । त्वया पुनः कथं रोटिकामात्र म्प्राप्तम् ?। शिष्येणोक्तम्- राजन् ! स्वपैक्ये फलभेदः कथमभूदाव86 -