________________
सूक्तमुक्तावली
|
स्वप्नं दृष्टवान्, पश्चाज्जागृतः स तादृशस्वप्नेन मनसा जहर्ष । तत्रैव तत्पार्श्वे सुप्तः कश्चन तन्मठपतिशिष्योऽपि तदा तादृशमेव स्वप्नमपश्यत् । प्रभाते च शिष्यस्तत्स्वप्नफलं गुरुमपृच्छत् । गुरुणोक्तम्ईदृशस्वप्रदर्शनादद्य ते गोधूमस्थूलरोटिका घृताक्ता सगुडा मिलिष्यति । तदाकर्ण्य मूलदेवो दध्यौ, मम तु विशिष्टमेव तत्फलं किमपि I भविष्यति ।
तत उत्थाय स शिष्यो भिक्षायै नगरान्तः प्राविशत् । तत्र च कस्याश्चित् स्त्रिया मृतवत्सायाः सन्ततिजीवातवे कश्चिद्भिक्षुको मान्त्रिकोऽवदत्- हे मृतवत्से ! त्वमेतदर्धं गोधूमचूर्णकृतां करपट्टिकां निर्माय ताञ्च घृताभ्यक्तां विधाय तां सगुडां भिक्षवे देहि, ततस्ते सन्ततिर्जीविष्यति । तद्दिने सा मृतवत्सादोषापनोदनकृते तथा कृतवती, पुनः कस्यचिद्भिक्षोरागमनं प्रतीक्षमाणाऽऽसीत् । दैवयोगात्स शिष्यस्तद्गृहं गतवान् । तदा सा तस्मै तां घृतपूर्णां गोधूमस्थूलकरपट्टिकां सगुडां ददौ । तद्दिने यथा कथितं गुरुणा तथैव तेनापि लब्धमतो हृष्टो गुरोर्माहात्म्यं लोके जल्पन् गुर्वान्तिकमागात् ।
इतश्च सोऽपि मूलदेवस्तन्मठान्निर्गत्य कस्यचन मालाकारस्य वाटिकामागत्य तञ्च प्रसाद्य तत्प्रदत्तफलपुष्पादिकमादाय नैमित्तिकालयमासाद्य तैश्च फलपुष्पादिभिस्तमभ्यर्च्य निजस्वप्नफलमप्राक्षीत् । नैमित्तिको वक्ति - हे भाग्यशालिन् ! अद्यतनाद्दिवसात्सप्तमेऽहनि तव राज्यं मिलिष्यति, तत्राऽसंशयं विद्धि । एतत्स्वप्नस्यैतदेव फलं भावीति तथ्यं वच्मि । तदाकर्ण्य स जहर्ष ।
ततो दिनत्रयादभुक्तस्य तस्य बुभुक्षा जाता । तेन स ग्राममध्ये
85