________________
सूक्तमुक्तावली तत्पुनर्लब्धुं नैव शक्यते । अतो धर्मे समुद्यतितव्यं भव्यैः सदैव ।
१५-अथ मनुष्यत्वदौर्लभ्ये स्वप्नस्य
दृष्टान्तो दर्श्यते (षष्ठः)तथाहि-पाटलिपुरात्कलाकुशलो मूलदेवो राजपुत्रोद्यूतव्यसनात्पित्रा पराभूतो निर्गतो गुटिकाकृतवामनरूपोऽस्यामवन्ति पुर्या निवसति स्म । स च द्विसप्ततिकलाविज्ञानवानस्ति । तथा सकलजनचित्तालादनकरोऽस्ति । तत्रैव नगरे देवदत्ताऽभिधाना गणिका रूपलावण्यतारुण्याऽऽदिगुणयोगादद्वितीया वर्तते । तस्यां स कुमारो रागीभूय दिवाऽनिशं तदन्तिक एव तिष्ठति । क्षणमपि सुधारसमृत्कुम्पिकां स्वादिष्ठमिव तां कुशीलामपि न जहाति । यतःया विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरतातिनिकृष्टा। कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः
अथैकदा तस्या गृहे कश्चिदचलाऽभिधो व्यवहारी समागत्य कुमारं तत्राऽऽसीनमपश्यत् । तत्राऽवसरे द्वयोरपि व्यवहारिकुमारयोमिथो वादप्रतिवादो जज्ञे । तदनुस मूलदेवो चूतव्यसनीबभूव । तेन तन्मात्राक्कया स मूलदेवो निष्कासितः। ततो भिक्षुवेषं विधाय स देशान्तरमचलत् । ग्रामानुग्रामं पर्यटन स दिनत्रयानन्तरं कस्यचित्तटाकोपकण्ठमेकं संन्यासिनो मठमपश्यत् । तत्रैव गत्वा रात्रौ शिष्ये.
तत्राऽर्धनिद्रितः स रात्रिशेषे षोडशकलापूर्ण चन्द्रम्पीतवानिति
॥१॥
84