________________
सूक्तमुक्तावली तच्छकाशात्पुनर्लप्स्यन्ते । परन्त्वेतन्मनुष्यत्वं महता कष्टेनाऽधिगतं यद्यास्यति तर्हि तत्पुन व मिलिष्यति । अतोधर्मे यतितव्यं सवैभव्यजनैः।
१२-मनुष्यत्वदौर्लभ्ये धान्यस्य
दृष्टान्तमाह (तृतीयः)तथाहि-यथा कश्चिद्राजा भरतक्षेत्रीयचतुर्विंशजातीयानि धान्यानि परस्परमिश्रितानि कृत्वा ततस्तेषामेकराशिं विहितवान् । ततस्तेन राज्ञा काचिदतिवृद्धा कम्पिताऽखिलगात्रा गतशक्तिका दृष्टिहीना एकपदमपि गन्तुमशक्ता सदैव लालयितवक्त्रा जर्जरीभूता स्त्री मणिता - भो ! एतस्माद्राशेः सर्वजातीयधान्यानि पृथक् पृथक् कुरु । एवं प्रोक्ता साऽतिवृद्धा स्त्री तथा कर्तुं नैव शक्नोति । तथा ये प्रमादवशाद्धर्मविमुखा मनुष्यत्वमेतद् गमयन्ति, तेषां पुनरेतत्प्राप्तिरतिदुष्करेति ज्ञात्वा सर्वैरेव धर्म आराधनीयः।
१३-अथ मनुष्यत्वदौर्लभ्ये धूतस्य
दृष्टान्तं दर्शयति (चतुर्थः)तथाहि-जितशत्रो राज्ञो बहवः पुत्रा आसन् । ते सर्वे सुखमनुभवन्तः पितुरादेशकारिणो बभूवुः | तस्य राजसभासदनमतिरमणीयं महत्तरमासीत् । तत्र स्तम्भानामष्टोत्तरशतं नानाचित्रश्चित्रितमासीत् । प्रतिस्तम्भे चाऽष्टोत्तरशतसंख्यावन्तो हंसा व्यराजन्त ।
__ अथैकदा राज्ञो ज्यायान पुत्रो दध्यौ- यथा ममाऽपि वार्धक्यमागतम्, अतिवृद्धोऽप्यसौ मे पिताऽद्यापि जीवति, राज्यं च भुनक्ति ।
- 81