________________
सूक्तमुक्तावली जीवत्यस्मिन्नहं राज्यसुखमनुभवितुं नार्हामीति केनाऽपि व्याजेनैनममारयिष्यं तर्ह्यहं राज्यमकरिष्यमिति स्थिरीकृत्य स पितरं घातयितुम्प्रयतमानोऽभूत् । एतत्स्वरूपङ्कथमपि ज्ञात्वा राजानं मन्त्री व्यजिज्ञपत् । तद्यथा - हे राजन् ! अतः कमप्युपायं कुरु, येन राजकुमारस्य तवापि च जीवितं तिष्ठेत् ।
I
ततो राज्ञा सदसि तमाहूय स कथितः - हे पुत्र ! अहं वृद्धो जातोऽस्मि । यथावद्राज्यकार्यमपि कर्तुं न शक्नोमि । अतः परं तथा कर्तुमिच्छाऽपि मम नास्ति । अतस्त्वामिदानीमेव राज्येऽभिषेक्तुमिच्छामि । परमस्मत्कुले सनातनी किलैषा पद्धतिर्वर्तते तां शृणु । एतद्राजभवनेऽष्टोत्तरशतस्तम्भेष्वेकैकस्मिन् स्तम्भे येऽष्टोत्तरशतहंसा विद्यन्ते, तानैकैकशोऽष्टोत्तरशतवारं द्यूतक्रीडया यो जयति, स राज्यसिंहासनमारोहति । नो चेत्तस्य विघ्नानि जायन्ते । उक्तसंख्याया अपूर्ती मध्ये पाशकानां विपरीतपाते तु पूर्वजितान्यखिलान्यपि यास्यन्ति । उक्ता तावती संख्या पुनरादितः पूरणीया भविष्यति, इत्थमेतत्कृत्यं सत्वरं विधाय राज्यमिदं गृहाण |
परमेवं कृत्वा राज्यप्राप्तिरतिदुष्करा वर्तते । कदाचित्कोऽपि देवसाहाय्ययोगेन तांस्तावद्वारं विजित्य राज्यमाप्नुयादपि, धर्मेष्वनुपार्जितेषु यो हि महता यत्नेन प्राप्तमिदं मनुष्यत्वं गमयति तस्य जन्मशतैरपि कोटियत्नैरपि पुनर्लब्धं तन्नैव भवतीति मत्वा भव्यजीवैर्धर्मोपार्जनमवश्यमेव कर्तव्यम् । प्रमादो हि तत्र मनागपि न विधातव्यः ।
82
Mo