________________
सूक्तमुक्तावली
चन्द्रगुप्तरथे समागताऽभूत् ।
ततो महता महेन पुरं प्रविश्य राज्यसिंहासनारूढश्चन्द्रगुप्तः सुखेन राज्यमकरोत् । ततोऽन्तःपुरे काचन विषकन्याऽऽसीत् ताञ्च पर्वतराजः परिणीतवान् । तस्याः करस्पर्शमात्रेण पर्वतस्य सर्वाङ्गं विषं व्याप्तम् । ततः स व्याकुलो जातः । म्रियमाणं तमालोक्य चाणक्यञ्चन्द्रगुप्तोऽवदत्- हे पितः ! मित्रं म्रियेत चिकित्सां कुरु । तेनोक्तम् - वत्स ! मौनमाश्रय, अस्य चिकित्सा नाऽस्ति । यतःतुल्यार्थं तुल्यसामर्थ्यं, मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते
॥१॥
ततः पर्वते मृते सति निष्कण्टकं राज्यं तस्य जातम् । ततोऽन्यदा धीमान् स चाणक्यो देवतामाराध्य स्वानुकूलपातुकान् पाशकानग्रहीत् । ततः पौरान् धनवतो जनान् सभायामाहूय रत्नैर्भृतं स्थालं पणीकृत्य स गदितवान् - भो भो लोकाः ! शृणुत । अस्यां द्यूतक्रीडायां यो जेष्यति स इदं रत्नभृतं स्थालं ग्रहीष्यति, पराजितस्तु एकं रत्नं दास्यति, इति तन्निगदितमाकर्ण्य हृष्ट्वा धनाढ्या द्यूतनिपुणा लोकास्तेन सह देवितुं लग्नाः । सोऽपि रत्नभृतस्थालं लोकसमक्षं मध्ये निधाय तैः सहाऽदीव्यत् । देवाऽधिष्ठितास्ते पाशकाः सदैव स्वानुकूला एव पतितुं लग्नाः । इत्थं क्रीडता तेन चाणक्येन कियद्भिरेव दिनैः सर्वेषां गृहस्थानि रत्नानि जग्राह । कोऽपि तस्मिन्देवने तञ्जेतुं न शशाक । सर्वेऽपि हारितरत्नाः शोचितुं लग्नाः । हे भव्याः ! पश्यत, यथा गतानि तानि रत्नानि तेषां पुनरधिगतानि न भवितुमर्हन्ति । कदाचित्ते हारिता जना देवसाहाय्यतया तञ्जित्वा गतानि निजरत्नानि
80