________________
सूक्तमुक्तावली
गुप्तस्थले चन्द्रगुप्तं संस्थाप्य स्वयं तापसवेषं विधाय चाणक्यो जीवितं
रक्षितवान् ।
पुनस्तद्वेषेण तत्र नगरे भिक्षामिषेण मयि पराजिते नगरे के किं वदन्तीति ज्ञातुमिच्छुः समागत्य पर्यटितुं लग्नः । अथैवं कुर्वन्नेकस्या वृद्धाया गृहाग्रे तस्थौ । तत्रावसरे तद्गृहे द्वित्राः शिशवः खादितुमुपविष्टाः । सा च वृद्धा तेभ्यस्तत्कालकृतमत्युष्णं भोजनं दत्तवती । ते च तन्मध्ये ग्रहीतुं करान्ददुस्तदा सन्तप्तकरास्ते भृशञ्चक्रन्दुः । तत्राऽवसरे तानूचे सा - रे शिशवः ! यूयमपि चाणक्यवन्मूर्खा एव भाथ । तदाकर्ण्य स तामपृच्छत्-हे मातः ! चाणक्यः किमकरोत् येन तं मूर्ख भणसि । सा कथयति- हे तापस ! स पुराऽत्रागतो राजसिंहासनमाक्रामत्, दास्या कुट्टितो भसितश्च । पुनरागतो राज्ञा युद्धयमानः पराजितो भूत्वा पलायनमकरोत् । यदि पाटलिपुत्र - सीमान्तवर्तिनृपान् वशीकुर्यादादौ तर्हि नैवंविद्यावस्था भवेत् । इत्यविमृश्यकारित्वात्स मूर्खो जातः । एतेऽपि शिशवस्तथाऽऽचेरुः । यद्येते प्रान्ततः शीतं शीतं समादाय भुञ्जीरन् तर्हि करा नैव दग्धा भवेयुः ।
ततश्चाणक्योऽपि तद्वाक्यात्प्रबुद्धः पर्वतनामानं राजानं ससैन्यं सार्थीकृत्य चन्द्रगुप्तेन सह प्रचुरसैन्यसमन्वितः प्रान्तिकग्रामाननेकाञ्जित्वा स्वायत्तीकृतवान् । पश्चात्पाटलिपुत्रे समागत्य तेन सहायुध्यत । तुमुलं रणं कृत्वा तम्पराजितमकरोत् । पश्चाद्दयया नन्दञ्जीवन्तमेव राज्यान्निष्काश्य चन्द्रगुप्तपर्वतराजाभ्यां सह चाणक्यो नगरम्प्राविशत् । तत्राऽवसरे निर्गच्छतो नन्दस्य रथे तत्पुत्रीमतिरूपवतीं तरुणीमालोक्य स चन्द्रगुप्तः स्मरातुरो नितरां मुमोह । ततः साऽपि कन्या तद्रथादवतीर्य
79