________________
सूक्तमुक्तावली सा पुत्रमसोष्ट | तस्मिञ्जाते राज्ञा महामहश्चक्रे | ततो द्वादशेऽहनि पिता तस्य दोहदानुसारेण चन्द्रगुप्त इति नाम धृतवान् ।
इतश्च चाणक्यस्तापसवेषी नानादेशम्पर्यटन् स्वर्णादिसिद्धिकरी विद्यामधिगतवान् । अथाऽन्यदा तस्मिन् मयूरपालराजनगरे पुनरागतवान् सः । तत्र चाऽनेकान् बालकानेकीकृत्य बालक्रीडां कुर्वन् स्वयं राजा भूत्वा कञ्चन प्रधानं कृत्वा कस्मैचिद् ग्रामं ददते, कस्मैचन नगरं ददाति । कयोश्चिद्वादिप्रतिवादिनोायं करोति । कञ्चन कोष्ठपालपदे नियुङ्क्ते । इत्थं रममाणञ्चन्द्रगुप्तं वीक्ष्य चमत्कृतश्चाणक्यतापसः कञ्चिदपृच्छत्- भो! अयं कस्य पुत्रोऽस्ति? एषः शिशुस्तस्य तापसस्याऽस्ति, येन राज्याश्चन्द्रपानदोहदः समपूरि । तच्छ्रुत्वा चाणक्यो जहर्ष । तस्मिन्नवसरे तत्रागच्छद्गोवृन्दमालोक्य चाणक्यश्चन्द्रगुप्तमगदत् - महाराज! त्वमधुनाऽनेकेभ्यो ग्रामनगरादि दत्तवानसि । अहमपि तव शुभेच्छुर्ब्राह्मणोऽस्मि, मह्यमपि किमपि देहि । तच्छ्रुत्वा तस्मै चन्द्रगुप्तस्तद्गोवृन्दं ददौ जगाद च वीरभोग्या वसुन्धरेति । ततस्तं सोऽवक्-हे वीरशिशो! त्वमेहि मया सह, ते राज्यं ददामि । इत्युक्त्वा तं सार्थं नीत्वा स ततोऽग्रे चचाल |
अथ स चाणक्यश्चन्द्रगुप्तं बालराजं विधाय स्वर्णसिद्ध्युपार्जितधनेन सैन्यानि च कृत्वा तस्मिन् पाटलिपुत्रे पुरे नन्दराजेन सह योद्धमुपागतः। सोऽपि ससैन्यस्तदभिमुखमाययौ । जाते च मिथो युद्धे नन्दराजस्तत्सैन्यं लीलया क्षणेनैव जिगाय | ततो नष्टे सैन्ये चन्द्रगुप्तबालकेन सह सोऽपि पराजितः कथमपि कान्दिशीकमनाः पलायितः । कियदूरं पृष्ठानुगाद्धननाय नन्दराजतो मार्गे कुत्राऽपि
78
-