________________
सूक्तमुक्तावली
अथ विवाहोत्सवानन्तरं सा निजालयमागत्य प्रसङ्गवशात्पित्रादिविहिताऽपमानं भर्तारमाख्यत् । तदाकर्ण्य किञ्चिद्विदूनमनाचाणक्यश्चिन्तयतिवन्द्यते यदवन्द्योऽपि, यदपूज्योऽपि पूज्यते । गम्यते यदगम्योऽपि, स प्रभायो धनस्य तु ॥१॥ यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते
Dરા ततः प्रचुरलक्ष्मीसमर्जनाय विदेशयात्रामकरोत् । स मार्ग व्रजन्नेवं प्रतिज्ञातवान् । यदि प्रचुरधनप्रदानेन निजप्रेयसीमनःसन्तुष्टिं न कुर्यां तर्हि मम जीवितमपि मुधैव । अत्राऽन्तरे कश्चिद् ब्राह्मणो मार्गे मिलितः । तमेवमपृच्छदसौ- भो ब्राह्मण! कुतः समागतोऽसि ? तेनोक्तम् - पाटलिपुत्रे नगरे नन्दनामा राजा प्रतिवर्ष मे दक्षिणां दत्ते । तां लातुं तत्राऽहं गतवान् । परन्तु स इदानीमन्तःपुरान बहि याति। अतः परावर्तमानो निजगृहं व्रजामि । तन्मुखादित्याकर्ण्य चाणक्यः पाटलिपुत्रपुरमागतः ।
ततो राजसदसि समागत्य शून्यं नृपासनमालोक्य तदुपरि समुपाविशत् । तत्रोपविष्टं तमालोक्य कयाचिद्राजदास्या भणितः- हे द्विज ! राज-सिंहासनं त्यक्त्वाऽन्यस्मिन्नासने समुपविशेति कथिते तेनोक्तम् - हे दासि! अन्यदासनं दर्शय । दास्या पार्थस्थमेकमासनं दर्शितम् । तदुपरि स कमण्डलुं स्थापितवान् । पुनस्तया तृतीयमासनं
75