________________
सूक्तमुक्तावली दर्शितं, तत्राऽपितेन पवित्री स्थापिता, ततस्तया चतुर्थमासनं दर्शितं, तत्र दण्डस्तेन स्थापितः । इत्थं तया यद्यदासनं दर्शितं तदखिलमायत्तीकृतवान् । इत्यालोच्य सञ्जातरोषया दास्या बलादुत्थाप्य निष्काशितः स बहिः । तत्राऽवसरे तेनैवं सा निगदिताकोशेन भृत्यैश्च निबद्धमलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरियोग्रवेगः ॥१॥
__ हे दासि ! मां तदैव ज्ञास्यसि । यदा ते नन्दराजस्येदं राज्यं ग्रहीष्यामीति। दास्योक्तम्- गच्छ गच्छ, सत्वरमितोऽपसर | त्वादृशो रङ्कः प्रत्यहमत्र द्वित्रिरायात्येव । अथ चाणक्योऽपि दास्या तिरस्कृतः साधुभाषितं राज्यमन्त्री भविष्यत्यसाविति स्मृत्वा कस्यचिद्राज्यकारिलक्षणाङ्कितस्य पुंसः शोधनायाऽग्रे चचाल । नन्दनृपाश्रितमयूरपालस्य राज्ञो नगरे समागत्य तापसवेषं विधाय मिक्षितुं लगः ।
इतश्च मयूरपालराज्याः पूर्णचन्द्रपिपासालक्षणोदोहदः समुदपद्यत, परन्तुतस्य पूर्तिः केनाऽपि कथमपि नाऽकारि। अतः सा तद्दुःखेनाऽन्वहं कृशतरा जाता । तां तथावस्थामालोक्य राजाऽपृच्छत्- अयि प्रिये! तव किं भवति ? येनेदृक् कायं तव वपुषि दृश्यते । ततः सा निजदोहदं तादृशमगदत् । कथितञ्च- हे स्वामिन्! यद्येष दोहदो मे पूर्णो न भविष्यति, तर्हि मरिष्यामि । अत्र सन्देहं मा कार्षीः । इति श्रुत्वा राज्ञो मनसि महती चिन्तोत्पन्ना।
तत्राऽवसरे तापसवेषी चाणक्यो भिक्षार्थं राजद्वारमागत्य तस्थौ । तंवीक्ष्य राजा तंप्राणमत् । तेनाऽपि पृष्टः-हेराजन् ! तव कीदृशी चिन्ता जाता, येन विच्छायवदनः प्रतिभासि ?। तदा राजा तत्कारणं
76
-