________________
सूक्तमुक्तावली
११- अथ मनुष्यत्वदौर्लभ्ये पाशकस्यदृष्टान्तः (द्वितीयः )
तथाहि–अस्मिन्नेव भरतक्षेत्रे गोलकदेशे चणकाख्यपुरे चणकाभिधः कश्चिदेको ब्राह्मणो निवसति स्म । तस्य चणेवरी नाम्नी भार्याssसीत् । तौ दम्पती जैनधर्मानुरागिणावभूताम् । चणेष्वर्याः कुक्षौ सदन्तः पुत्र उदपद्यत । जातं तथाभूतमालोक्याऽनिष्टशङ्कया सा शिशोर्दन्तमत्रोटयत् ।
एकदा तद्गृहे कश्चन साधुराययौ । सा तं साधुं निजसदन्तपुत्रजन्मफलमपृच्छत् । तन्निशम्य साधुना तत्फलमित्याख्यातम-असौ जातको राज्यं भोक्ष्यति । तच्छ्रुत्वाऽतिहृष्टा माता पृच्छति - हे मुने ! मयाऽनिष्टशङ्कयाऽस्य गर्भानुगो दन्तस्त्रोटितः । ततो मुनिरवादीत् - हे सुभगे ! दन्तघर्षणादसौ स्वयं राज्यभोक्ता न स्यात्, किन्त्वन्यङ्कञ्चन राज्यासने संस्थाप्य राज्यभोगी भविष्यति । तत्फलाऽऽकर्णनेन तौ नितरां जहृषतुः । ततस्ताभ्यां तस्य शिशोश्चाणक्येति नाम चक्रेते ।
I
अथ स शिशुः क्रमेण सकलशास्त्रकलाविज्ञाननिपुणोऽभूत् । महाजैनधर्मानुरागी जातः । ततोऽसौ सुरूपलावण्यादिगुणविशिष्टया कन्यया सह पितृभ्यां परिणायितः ।
अथैतस्य चाणक्यस्य भार्या पित्रालयं विवाहोत्सवे समाहूता ययौ । तत्राऽन्याप्यस्या भगिनी समागताऽऽसीत् । तस्याश्च धनादिसमृद्धतया मातापित्रादिकः सर्वोऽपि परिवारो बह्वादरं ददौ । चाणक्यपत्नी तादृशी धनवती श्रीमती नाऽऽसीदतोऽस्याः सत्कृतिस्तथा नाऽकारि पित्रादिभिः ।
74