________________
सूक्तमुक्तावली सदेवैः संसेव्यमानो द्विनवतिसहस्राधिकलक्षदाराभिः सह सुखं भुआनो ब्रह्मदत्तचक्रवर्ती महत्या समृद्ध्या तां काम्पिल्यपुरीमाजगाम |
तत्कालमेव महादुष्टं तं दीर्घपृष्ठनृपं यमराजसदनाऽतिथिं व्यधात् । साऽपि चुलनी राज्ञी जस्ता सती नष्ट्वा दीक्षामग्रहीत् । शुद्धसंयम परिपालयन्ती कृतकर्माणि क्षपयन्ती तस्मिन्नेव भवे मृत्वा मोक्षमाप । इत्थं ब्रह्मदत्तसार्वभौमः प्रजाः पालयन् सुखेन षट्खण्डां महीं शशास, वरधनुः प्रधानपदे तिष्ठन् न्यायेन सर्वं राज्यकार्यङ्करोति स्म।
अथैकदा येन ब्राह्मणेन सार्धमष्टचत्वारिंशत्क्रोशपर्यन्तामटवीमुल्लचितवान, ब्रह्मदत्तञ्चक्रवर्तिनमाकर्ण्य"काम्पिल्यपुरे त्वयाऽवश्यमागन्तव्यमिति' वचनञ्च यस्मै पुरा दत्तवान् स ब्राह्मणो, ब्रह्मदत्तश्चक्रवर्ती जात इत्याकर्ण्य तद्दत्तवचनञ्च संस्मृत्य तत्राऽऽगतः । ततस्तं मिलित्वा पूर्ववृत्तं निगदितवान् । चक्रवर्तिनाऽपि स समुपलक्षितः। कथितञ्च- हे भट्टराज ! मम सर्वमपि स्मृतिपथमारोहति । अहं तवोपरि तुष्टोऽस्मि । अत इदानीमीप्सितं दानमहं तुभ्यं किं ददामीति ब्रूहि ? तत्राऽवसरे तेनोक्तं - हे राजराजेश्वर! अहं भार्यामापृच्छ्य पुनरिहागत्य यथेष्टं याचिष्ये । राज्ञोक्तं - तथाऽस्तु याहि ।
ततः स गृहमागत्य पत्नीमतिहृष्टो जगाद - अयि प्रिये ! स ब्रह्मदत्तचक्रवर्ती काम्पिल्यपुरे मिलितः, मयि प्रसन्नो भूत्वा वक्ति-हे भट्ट ! तव यदीप्सितं भवेत्तन्मार्गय तत्ते दास्यामीति । अतोऽहं त्वां प्रष्टुमिहागतोऽस्मि, ततः किं मार्गणीयमिति विचार्य सत्वरं ब्रूहि यस्मिल्लब्धे यावज्जीवमहं सुखी स्याम् । इति श्रुत्वा मनसि चिन्तयति
-
71