________________
सूक्तमुक्तावली समुत्पन्नबुद्धिशालिनी साप्रवर्धमानः पुरुषस्त्रयाणामुपघातकः । पूर्योपार्जितमित्राणां, दाराणामथ वेश्मनां
यद्यसौ चक्रवर्तिन एकदैव प्रचुरं धनं ग्रामादिकं राज्यं वा लप्स्यते, तदाऽसौ धनमदादन्यां काञ्चन रूपलावण्यवतीं युवती परिणीय मां हास्यति । ततोऽहं दुःखभागिनी भविष्यामीत्यादि विचार्य, तयैवं भणितो द्विजः - हे नाथ ! मम राज्यं न रोचते, यतस्तस्मिन् बहुशो विपद आपतन्ति | धनादिमार्गणे दिवानिशं चौरादिचिन्ता भविष्यति । मम तु तदेव रोचते येन निर्विघ्नतयाऽऽवयोः पुत्रपौत्राद्यनेककुलपर्यन्तं सुखं स्यात् । एतादृशङ्किमस्ति, यत्त्वं प्रसन्नञ्चक्रवर्तिनं याचिष्यसे; तदाकर्ण्यताम्- हे नाथ ! त्वं याहि चक्रवर्तिनमेवं वद, हे चक्रवर्तिन् ! तव राज्ये ! सर्वे लोकाः प्रतिदिनमनुक्रमेण यथारुचि भोजनं सकृद्दीनारदक्षिणाप्रदानपुरस्सरं मे तवाऽऽदेशाद्ददतु, एतावतैव मे सन्तुष्टिरस्ति । इतोऽन्यत्किमपि सुखदं न वेद्मि ।
___ तदा ब्राह्मणेन तत्र गत्वा यथा पत्न्या कथितं तथैव याचितम् । चक्रवर्तिनोक्तम्- हे ब्राह्मण ! मयि प्रसन्नेऽभीष्टं ददमाने राज्यादिकं त्यक्त्वा तुच्छमिददि याचसे ? | राज्यं ते दित्सामि, तत्किमिति न गृह्णासि । द्विजो वक्ति- हे पृथ्वीनाथ ! राज्यम्प्रचुरन्धनादिकं वा यदि मे दास्यसि, तदा मे दुःखान्यनेकानि तथा ब्राह्मण्यकर्मावरोधश्च सम्भविष्यति, अत इदं मत्प्रार्थितमेव देहि । चक्रिणा विचारितम् - जो जत्तिअस्स अत्थस्स, भायणं तस्स तत्तिअं होड़ । बुढे वि दोणमेहे, न डुंगरे पाणियं ठाइ
॥२॥
72