________________
सूक्तमुक्तावली इत्थं तृतीये दिवसे समुल्लवितमहावनं कुमारमेवमूचे द्विजःभो बालक! तव दिनत्रयमशनादिकं विना यातम् । अत इदानीमनेन मार्गेण सुखेन समीपवर्ति नगरं याहि । तत्र गत्वा सुखी भविष्यसि । इति निगद्य ब्राह्मणश्चचाल | तत्राऽवसरे ब्रह्मदत्तेन स भणितः। भो ब्राह्मण ! त्वया ममोपकारो महान कृतः । यस्य स्मृतिराजन्म मम स्थास्यति, अतोऽहमिदानीं तत्प्रतिक्रियाङ्कर्तुं नार्हामि । यदा त्वं ब्रह्मदत्तचक्रवर्तिनं शृणुयास्तदा त्वमवश्यमस्मत्पार्धमागन्तासि । अहं क्षत्रियपुत्रोऽस्मि, तदा ते मनोऽभीष्टमहं पूरयिष्यामि ।
इति कुमारोक्तं श्रुत्वा ब्राह्मणो मनसि चिन्तयति - एतादृशा रङ्कजना बहुधा मे मिलितास्सन्ति । अतः कथमसौ चक्रवर्ती भविष्यति । भवतु, तथाऽपि योग्याशीर्देया, इति विचिन्त्य स वक्ति- हे महाभाग्यशालिन् ! त्वं भाग्यवानसि, तव मनोरथः सर्वः परिपूर्णतामुपैतु । इत्याशिषा कुमारमभिनन्द्य ब्राह्मणश्चचाल |
ब्रह्मदत्तोऽपि द्विजादिष्टपथेन नगराऽभिमुखञ्चचाल, इत्थं ग्रामानुग्रामकाननादिषु पर्यटन कुमारः शतवर्षाणि निनाय | मध्ये च स राज्ञां विद्याधराणांश्च द्विनवतिसहस्राधिकलक्षङ्कन्या अप्युदवोढ | षट्खण्डायाः पृथिव्याश्चक्रवर्ती राजा जातः। तस्य षण्णवतिकोटिग्रामा अभूवन् । महानगराणां द्विसप्ततिसहस्रमासीत् । पट्टनमष्टचत्वारिंशत्सहस्रं बभूव । लघुग्रामादयस्त्वसंख्याता आसन् । द्रोणादयो नवनिधयोऽपि तदायत्ता बभूवुः । रत्नानां चतुर्दशाऽऽसन् । किञ्चषण्णवतिकोटिपदातयः । गजेन्द्राश्चतुरशीतिलक्षाः, तावन्तोऽवाश्च, एतावन्तोरथाश्चाऽभूवन् । एवञ्चतुरङ्गसेनया शोभमानः पञ्चविंशतिसह
70 -