SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली एव स्थातव्यम् । इति पितुः शिक्षाङ्गीकृता वरधनुनापि । ततः प्रधानो दीर्घपृष्ठराजान्तिकमागत्य तमुवाच- भोः स्वामिन्! अहमतिवृद्धो जातोऽस्मि । अतस्तवाऽऽदेशं लात्वा तीर्थयात्रां विधातुमिच्छामि । इति तत्प्रार्थनामाकर्ण्य दीर्घेणैवमचिन्ति- नूनमसौ बहिः कुत्रापि गत्वा कामप्युपाधिकरिष्यत्यतोऽस्य बहिर्गन्तुमाज्ञामिदानीं नैव दद्यामिति विचार्य दीर्घेण स भणितः- भो मन्त्रिन ! इदानीं राजकार्य महदस्ति । अतस्तीर्थयात्रामिदानी मा कुरु । अत्रैव स्थित्वा दानादिधर्म कुरु । - ततः स प्रधानस्तत्रैव गङ्गातटे दानशाला निर्माप्य तस्थौ । पुनर्दानशालातोलाक्षामयगृहाऽवधिगुप्ता सुरङ्गा तेन खानिता। सोऽवदच्च निजपुत्रम्- भोः पुत्र ! यदा ब्रह्मदत्तकुमारो वध्वा सह लाक्षागृहे गच्छेत्तदा तेन सह त्वयापि तत्र गन्तव्यम् । तेन हान्निवारितोऽपि त्वया ततो नैव निवर्तितव्यम् । पुनस्तत्र यदा कोऽप्युत्पातो भवेत्तदा व्याकुलीभूतकुमारम्प्रत्येवं वाच्यम्- भोः स्वामिन् ! अत्र स्थले द्रुतं पादाघातं कुरु, यथा प्राणरक्षणोपायः शीघ्रं प्रकट: स्यात् । तथा कृत्वा सुरङ्गमार्गेण युवां दानशालान्तिकमागत्य तत्रस्थापितावश्वावारुह्य देशान्तरं गच्छेतम् । तत्राऽवसरे यदि कुमारो वधूमानेतुमिच्छेत्, तदा स निरोधनीयः। तां त्यक्त्वैव युवाभ्यामागन्तव्यम् । इतश्च पाणिपीडनानन्तरं प्रधानोक्तरीत्या राजकुमारीवसनाभरणैर्विभूषितया दास्या वध्वा सह निजाऽऽवासमागतो ब्रह्मदत्तः कुमारः स्वमातुरादेशात्तत्र लाक्षागृहे वधूयुतः शयितुं गतवान् । तदा प्रधानपुत्रोऽपि सहैवाऽऽगतः | तमालोक्य कुमारस्तंसाऽऽग्रहमुवाच 67
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy