SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली यरदत्तस्य राज्ञः कुमार्या सह निजपुत्रस्य ब्रह्मदत्तकुमारस्य विवाहाऽवधारणं निश्चिक्ये । तत एकं लाक्षागृहं निर्माप्य निजपुत्रमवोचत - हे पुत्र ! अस्मत्कुले चैषा रीतिरस्ति यः पाणिग्रहणं कुरुते, स वध्वा सह प्रथमदिने लाक्षागृह एव स्वपिति । सरलाशयः कुमारः सनातनी कुलपद्धति मत्वा तयोक्तं सहर्षमुररीचक्रे । एतत्स्वरूपं धनुनामाऽतिवृद्धो मन्त्री विदित्वा मनसि दध्यौ - अहो! मया कदाप्येषा रीतिरेतत्कुले न श्रुता नैव दृष्टास्ति । नूनमनया दुराशया राज्या कुमारमारणायैष प्रपञ्चो विहितः । इत्यवधार्य तेन वृद्धमन्त्रिणा कणयराजानमेवं सूचितम्- यथा- भोराजन् ! विवाहानन्तरं ब्रह्मदत्तकुमारेण सह निजपुत्रीं मा प्रैषीः | काचन दासी तद्वेषभूषिता तेन सह प्रेषणीया । अन्यथा तवापि पश्चात्तापो महान भविष्यति । तत्कारणं पश्चाद् बोधयिष्यामि । कणयरराजा मन्त्रिवचनानुसारेण तथा कर्तुं मनस्यवधारितवान् ।। पुनरसौ मन्त्री निजपुत्रं वरधनुमेवमशिक्षयत्- भोः पुत्र ! कुमारविघाताय दुष्टया राड्या लाक्षागृह निर्मापितम्। तत्र मातुराज्ञया कुमारः राजकन्यां परिणीय शयिष्यते तया सह । ततः कुमारस्तत्र गृहे धक्ष्यति । अतः कुमाररक्षाकृते त्वामहं यथा शिक्षयामि त्वया तथैव सावधानमनसा विधातव्यम् । त्वया सर्वदा दिवानिशंकुमारसमीप एव स्थातव्यम् । कदाप्यन्यत्र न गन्तव्यम् । तां परिणीयाऽत्राऽऽगत्य कुमारो यदा लाक्षागृहे शयितुं गच्छेत्तदा त्वयाऽपि तेन सहैव तत्र गन्तव्यम् । यद्येवं कुमारः कथयेत् - भोः ! त्वमधुना गृहं याहि इत्यादि। तदा कथनीयम्- हे स्वामिन्! अहं ते दासोऽस्मि । सदैव तव समीप 66
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy