SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली एवं कुमारचरित्रं वीक्ष्य भयकातरो दीर्घपृष्ठो नृपो गत्वा चुलनीमवादीदेतत्सर्वम् । तेन कर्मणाऽतिरुष्टा दुष्टा सा राज्ञी मनस्येवं दध्यौ - अमुना दुष्टपुत्रेण किम् ? यो ह्येवं मम सुखे विघ्नायते । तत्रावसरे दीर्घेणोक्तम्-अयि ! प्रिये ! असौ कुमार आवयोश्चरितं सर्वं विदितवानस्ति । अतोऽसौ कुत्रचिद्दिने त्वां मां वा द्वयं वा मारयिष्यति । अतोऽहं त्वया सहैतत्कर्म्मकरणे बिभेमि । अथैतदाकर्ण्य I साऽवादीत् - हे स्वामिन् ! त्वमेतेनाऽधीरतां मा गाः । स हि बालत्वादेवमकरोत् । ततो भीतिः कापि कदाचिदपि तव न सम्भाव्यते । त्वमुदासीनो मा भूः । सत्यवसरेऽहमस्योपायङ्करिष्यामि । इत्थं तया प्रोत्साहितः स दुष्टः पुरेव तया सह रन्तुं पुनर्लनः | पुनरेकदा बह्मदत्तकुमारो वने कस्याञ्चित्कोकिलायां मैथुनं विदधदेकं काकमालोक्य, पुरेव तं राजसभामानीय पूर्ववज्जघान । पुनर्द्वितीयवारमेतत्कुमारचरित्रं दृष्ट्वा दीर्घो नितरामभैषीत् । एतसर्वं सविस्तारं राज्ञ्यै गदित्वा कथयितुं लगः यथा- अयि प्राणेश्वरि ! अद्यप्रभृति त्वत्सङ्गतिं त्यजामि, नो चेदवश्यमसौ ते पुत्रो मां मारयिष्यति । तदा सोवाच- हे प्राणनाथ ! अहं त्वां कदाचिदपि त्यक्तुं नेच्छामि । त्वां विना क्षणमप्यहं जीवितं धर्तुं न शक्नोमि । मां विसृज्य कथङ्गन्तुमिच्छसि ? । तदा दीर्घेण दुष्टेन पुनरुक्तम्- तर्हि सत्वरं निजपुत्रं मारय, येनाऽऽवयोः सुखञ्चिरस्थायि भवेत् । इत्याकर्ण्य सञ्जातहर्षया विषयसुखलोभेन निजपुत्रमारणमङ्गीकृतं तया चुलन्या । ततः पुनरसौ दीर्घपृष्ठराजा पुरेव स्वैरं तया सह क्रीडितुं लग्नः । इतश्च झटिति पुत्रं निहन्तुमिच्छन्ती सा दुष्टा कस्यचित्कण 65
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy