________________
सूक्तमुक्तावली जातः । साऽपि तस्मिन् रागवती बभूव । द्वयोश्च परस्पराऽवलोकनसरसभाषणादिना मदनो नितरामवर्धत । तयोमिथस्तथा रागोऽवर्धत, यथा तावुभौ क्षणमपि विश्लेषं सोढुं नाऽशक्नुताम् । ततोऽचिरादेव तयोः कुत्सिताऽऽचरणं सर्वैरपि ज्ञातम् । __यतः- चौर्य मासचतुष्टयेन, पारदारिकं षड्भिर्मासैरुद्घटं भवत्येव गुप्तमपि पापाऽऽचरणंजले तैलमिव बहिरायात्येव । तदितरेऽपि राज्ञः सखायस्तत्स्वरूपं ज्ञात्वा भृशमकुप्यन् निनिन्दुश्च । परं दीर्घपृष्ठस्य तत्र सञ्जातगाढाऽऽधिपत्यतया ततस्तमपसारयितुं निरोर्बु वा न प्रबभूवुः । दीर्घपृष्ठनृपोऽपितां राज्ञी निःशङ्कमनाः स्वकीयामिव सेवमानस्तद्राज्यस्याऽऽधिपत्यमपि स्वस्मिन् दर्शयन् राज्यकार्यमकरोत् ।
अथैतत्स्वरूपमतिप्राचीनो धनुनामा मन्त्री ज्ञात्वा वरधनुनामाभिधं स्वपुत्रमब्रवीत् - हे पुत्र ! ब्रह्मदत्तकुमारस्याऽतिप्रेयान् सखा त्वमसि । अत एकान्ते दीर्घपृष्ठनृपस्तन्मातरि यदनाचारं करोति तत्सर्वं यथावत्तं सूचय । ततो यथादिष्टं पित्रा तथैव तत्स्वरूपं सर्व ब्रह्मदत्तकुमारं व्यजिज्ञपत् स वरधनुनामा मन्त्रिपुत्रः । तच्छ्रुत्वा कुमारस्य कोपानलो नितरां प्रजज्वाल |
अथैकदा कञ्चन वायसं हंस्या सङ्गतमालोक्य राजसभा तौ समानीय सकलजनसमक्षं कुमारोऽवादीत् - भो भो लोकाः! पश्यत पश्यत यदयमधमः काक उत्तमामिमां हंसी निषेवते, इत्येनं दुराचारिणं हन्मीति निगदन् दीर्घपृष्ठ-समक्षमसौ कुमारस्तङ्काकञ्जघान । सूचितञ्चाऽनेन,यः कोऽप्यस्मद्राज्ये दुराचारमीदृशङ्करिष्यति तमित्थमेव हनिष्यामीति ।
64