SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली देवगतिमाप्तवान् । अधर्मसेवनाच्च शशिप्रभो राजा नारकी महती वेदनां चिरमन्वभूत, अतः सर्वैरपि सुरप्रभवद्धर्ममर्जयद्भिर्मनुष्यत्वमतिदुरापमिदं सफलं कर्तव्यम् । तथा शशिप्रभस्य नारकी वेदनामाकर्ण्य सावधानि सर्वाणि कर्माणि हेयानि | अथ मनुष्यजन्मनि दशभिर्दृष्टान्तरतिदौर्लभ्यं दर्शयन्नाह गाथाचुल्लगपासगधन्ने, जूए रयणे य सुमिणचक्के अ। चम्मयुगे परमाणू, दस दिटुंता मणुअलंभे ॥१॥ चुल्लिका १ पाशक २ धान्य ३ द्यूत ४ रत्न ५ स्वप ६ चक्र ७ चर्म-कूर्म ८ युग ६ परमाणु-दृष्टान्ता १० दश वर्तन्ते । एते च विस्तरतया ग्रन्थान्तरेण ज्ञातव्याः । इह तुग्रन्थगौरवभिया संक्षिप्तास्ते दर्श्यन्ते। १०-तत्रादौ मनुष्यत्वदौर्लभ्ये चुल्लिकायाः दृष्टान्तः (प्रथमः)यथा काम्पिल्यपुरे ब्रह्माख्यो राजा वर्तते । तस्य महारूपलावण्यवती रम्भासमाना चुलनीनाम्नी राज्यस्ति । तस्या गर्ने चतुर्दशस्वप्रसूचितो ब्रह्मदत्तनामा चक्रवर्ती पुत्र उदपद्यत । तस्य च बाल्यावस्थायामेव तत्पिता ब्रह्मराजा ममार | ततःप्रभृति तद्राज्यं ब्रह्मराज्ञः सुहृदश्चत्वारो नृपाअनुक्रमेण रक्षितुंलग्राः । प्रथमं सर्वेषामाज्ञया दीर्घपृष्ठनामा कश्चिन्नृपस्तद्राज्यरक्षायै सर्वैः स्थापितः । तदनुसोऽन्तःपुरे गमागमं विदधत्, तारुण्यमञ्जरीमतिसुन्दरीमप्सरसमिव तां चुलनीं राज्ञीमलोकत । ततस्तस्यां स महानुरागी 63
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy