________________
सूक्तमुक्तावली अस्मिन्नवसरे त्वमत्र किं तिष्ठसि । निजसदनं याहीति । सोऽवक्भोः कुमार ! तवाऽहं दासोऽस्मि । त्वां विहाय क्षणमपि मनो मे कुत्राप्यन्यत्र नैव लगति। अहमत्रैव तव चरणोपान्ते स्वप्स्यामि । इत्थं कुमारमभ्यर्थ्य सोऽपि तत्रैवाऽधःस्थितः । ततः कुमारीरूपमधिगता दासी वधूरपि तद्गृहे समागता सुष्वाप । ब्रह्मदत्तो वरधनुश्च परस्परमालपन्तौ जागृतावेवाऽभूताम् ।
_इतश्च मध्यरात्रे जाते निद्रिते च समस्तलोके सैका दुष्टा दुराचाररता राज्ञी तत्राऽऽगत्य तत्र लाक्षागृहे वह्निममुञ्चत् । तदनु किञ्चित्प्रदीप्तप्रायेऽनौ स्वस्थानमागत्य महता स्वरेण पूच्चक्रे। तथाहिभो भो रक्षकाः ! जागृत जागृत, धावत धावत यत्र लाक्षामन्दिरे मम पुत्रो वध्वा सह सुप्तस्तज्ज्वलति । हा दैव ! किं कृतम्, केन पापीयसा कृतमेवम्, हा हा !! मम पुत्रो दह्यते, किङ्करोमि ? अरे ! लोकाः ! सत्वरं कुमारं तद्गृहान्निष्काशयत, नो चेदहमपि न जीविष्यामि, हा हा !!! किञ्जातम् ?, यावदेवमाक्रोशमकरोत्, तावत्तत्राऽग्रिः कल्पान्तकाल इव वर्धमानः परितः प्रससार ।
गृहमध्ये च यदा ज्वलद् मन्दिरं कुमारेण दृष्टम्, तदा भयातुरः कुमारो वदति-अहो ! इदमकस्मात् किं जातम् ?, वरधनुर्वक्ति-भोः कुमार! यज्जातं तत्पश्चात्कथयिष्यामि । पुनवति कुमारः-तींदानी किङ्कर्तव्यम्, सत्वरं वद, नो चेत्त्रयोऽपि मरिष्यामः | वरधनुर्वक्ति- मा भैषीः, अस्त्युपायः । अत्र स्थले दक्षिणचरणाघातं महता बलेन देहि । यदत्र कृतसुरङ्गाया मुखमस्ति ततो मार्ग लब्ध्वा निर्गमिष्यावः । कुमारस्तथा कृत्वा सुरङ्गद्वारमुद्घाट्य तेन मार्गेण मित्रेण सह
68