________________
चतुर्थ अध्याय / 93 किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः।। मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम् । अपहसितं साम्राक्षं विक्षिप्ताङ्गच भवत्यतिहसितम्
- सा.द. 3/214, 215, 216, 217, 218, 219 27. इष्ट नाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् । धीरैः कपोलवर्णोऽयं कथितो यमदैवत ॥
शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् । तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥ अनुभावा दैवनिन्दाभूपातकन्दितादयः । वैवोच्छ्वास निः श्वासस्तम्भ प्रलपनानि च । निर्वेदमोहापस्मार व्याधिग्लानि स्मृतिभ्रमाः । विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥
___ -सा.द. 3/222, 223, 224, 225 28. क्षोकस्थायितया भिन्नो विप्रलम्भादयं रसः ।। विप्रलम्भे रतिः स्थायी पुनः संभोग हेतुकः ॥
- सा.द. 3/226 29. रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः। आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम् ॥
मुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव । संग्रामसंभ्रमाधैरस्योद्दीप्तिर्भवेत् प्रौढ़ा || भूविभङ्गौष्ठनिर्देशबाहु स्फोट नतर्जनाः । आत्मावदानकथनमायुधोत्क्षेपणानि च ॥ अनुभावास्तथाक्षेपक्रूरसंदर्शनादयः । उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ।।
मोहामर्षादयस्तत्र भावाः स्युर्व्यभिचारिणः । -सा.द. 3/227, 228, 229 230, 231 पू. 30. रक्तास्यनेत्रता चात्र भेदिनी युद्धवीरतः ।
- वही, 3/231 उ. 31. उत्तमप्रकृतिवीर उत्साहस्थायिभावकः । महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ।।
आलम्बनविभावास्तु विजेतव्यादयो मताः । विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः । अनुभावास्तु तत्र स्युः सहायान्वेषणादयः ॥ सञ्चारिणस्तु धृतिमतिगर्वस्मृतितर्करोमाञ्चाः।
स च दानधर्मयुद्धैर्दयया च समन्वितश्चतुर्धास्यात् ॥ -वही, 3/232, 233, 234 32. भयानको भयस्थायिभावो भूताधिदैवतः । स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥
यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् । चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ।। अनुभावोऽत्र वैवर्ण्यगद्गदस्वरभाषणम् । प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः । जुगुप्सावेगसंमोहसंत्रासग्लानिदीनताः । शङ्कापस्मारसम्भ्रान्ति मृत्वाद्याव्यभिचारिणः ॥
- सा.द. 3/235, 236, 237, 238 33. जुगुप्सास्थायीभावस्तु बीभत्सः कथ्यते रसः । नीलवर्णो महाकालदैवतोऽयमुदाहृतः ॥
दुर्गन्धमांसरुधिरमेदांस्यालम्बनं मतम् । तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् ॥ निष्ठीवनास्य वलननेत्रसङ्कोचनादयः । अनुभावास्तत्र मतास्तथा स्युर्व्यभिचारिणः ॥
मोहोऽपस्मारः आवेगो व्याधिश्च मरणादयः । - सा.द. 3/239, 240, 241, 242 पू. 34. अद्भुतो विस्मयस्थायिभावो गन्धर्वदैवतः ॥ पीतवर्णो वस्तु लोकातिगमालम्बनं मतम् ।
गुणानां तस्य महिमा भवेदुद्दीपनं पुनः ॥ स्तम्भः स्वेदोऽथ रोमाञ्चगद्गदस्वरसंभ्रमः । तथा नेत्रविकासाद्या अनुभावाः प्रकीर्तिताः ॥ वितर्कावेगसंभ्रान्तिहर्षद्या व्यभिचारिणः ॥
-सा.द. 3/242 उ., 243, 244, 245 पू.