________________
सिद्धान्तकौमुदी। [पूर्वकृदन्तइत्येव । 'मि मिदा' 'जि पिवदा' दिवादी म्वादी च । प्रमेदितः, प्रमेदितवान् । प्रवेदितः, प्रवेदितवान् । प्रधर्षितः, प्रधर्षितवान् । धर्षितं तेन । सेट् किम्प्रस्विनः । प्रस्विनं तेनेत्यादि । ३०५५ मृषस्तितिक्षायाम् । (१-२-२०) सेरिनष्ठा किन्न स्वात् । मर्षितः, मर्षितवान् । तितिक्षायां किम्-अपमृषितं वाक्यम् । अविस्पष्टमित्यर्थः । ३०५६ दुपधाद्भावादिकर्मणोरन्यतरस्याम् । (१-२-२१) उदुपधात्परा भावादिकर्मणोः सेरिनष्ठा वा किन्न स्यात् । युतितम् , योतितम् । मुदितम् , मोदितं साधुना। प्रद्युतितः, प्रद्योतितः साधुः । प्रमुदितः, प्रमोदितः साधुः । उदुपधात् किम्-विदितम् । भाव-इत्यादि किम्रुचितं कर्षापणम् । सेट किम्-ऋष्टम् । 'शब्विकरणेभ्य एवेष्यते' (वा ६२३)। नेह-गुध्यते धितम् । ३०५७ निष्ठायां सेटि । (६-४-५२) येर्लोपः स्यात् । भावितः, भावितवान् । 'वीदित:-' (सू ३०३६ ) इति नेट। संप्र. 'नि विदा गात्रप्रक्षरणे' इति देवादिकस्यैव कित्त्वनिषेधविधौ ग्रहणमित्यर्थः । विदित इति । 'विभाषा भाव-' इति पक्षे इट् । कित्त्वनिषेधविधौ खिद्यतेप्रैहणाभावात् कित्त्वान्न गुणः । अत्र खिदादीनाम् 'आदितश्च' इति इट् प्रतिषिध्यते । भावादिकर्मणोस्तु पक्षे इट् । मृषस्तितिक्षायाम् । तितिक्षा क्षमा। सेरिनष्ठा किन्नति । शेषपूरणमिदम् । 'निष्ठा शीङ्-' इत्यतो निष्ठेति 'न क्त्वा सेट्' इत्यतः सेरनेति 'असंयोगात्-' इत्यतः किदिति चानुवैतत इति भावः । उपधाद्भावादिकर्मणोः । भावे उदाहरति मुदितमित्यादि । श्रादिकर्मण्युदाहरति प्रद्युतितः, प्रद्योतितः साधुरिति । आदिकर्मणि कर्तरि क्तः । उदुपधात्किम्-विदितमिति । 'विद ज्ञाने' इति वेत्ते रूपम् । गुध्यतेर्गुधितमिति । 'गुध परिवेष्टने' दिवादिः सेटकः । निष्ठायां सेटि । णेर्लोपः स्यादिति । शेषपूरणमिदम् । 'णेरनिटि' इत्यतो गरिति 'अातो लोपः-' इत्यस्माल्लोप इति चानुवर्तते इति भावः । अनिटीति निषेधादप्राप्ते आरम्भः । 'टुओ शिव गतिवृद्धयोः' अस्यात् क्ते आह श्वीदित निषेधाभावादिति भावः । न च विदेति देवादिकोऽपि नीदिति वाच्यम् , हरदत्तप्रन्थविरोधादिति भावः । अत्र हरदत्तः-मिष्विदा स्नेहनमोचनयोरिति दिवादिह्यते, न तु निविदा अव्यक्ते शब्दे इति भ्वादिरपि, मिदिना साहचर्यादित्याह । तच्चिन्त्यम् । भ्वादिष्वपि मिदेः पठ्यमानत्वात् । तस्मादविशेषादुभयोर्ग्रहणं न्याय्यं तदेत. दाह दिवादी भ्वादी चेति । खिदादीनाम् 'आदितश्च' इतीनिषेधात्सेनिष्ठा न संभवतीत्यादिकर्मणि निष्ठोदाहृता । अविस्पष्टमिति । मृषधातोस्तितिक्षायामेव वृत्तिसत्त्वेऽपि सूत्रस्थतितिक्षाग्रहणमेव ज्ञापयत्यनेकार्था धातव इति । रुचितमिति ।