SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७ सारणम् । शूनः । दीप्तः । गुहू, गूढः । वनु, वतः। तनु, ततः पतेः सनि वेटकस्वादिडभावे प्राप्त द्वितीया श्रित-' (सू ६८६) इति सूत्रे निपावनादि । पतितः । 'सेऽसिचि-' (सू २५०६ ) इति वेट्वस्वास्सिद्धे कृन्तस्यादीनामीदिवे. इति नेडिति । संप्रसारणमिति । यजादित्वादिति भावः। संप्रसारण सति पूर्वरूपे 'हलः' इति दीघे 'भोदितश्च' इति निष्ानत्वे रूपमाह शून इति । यद्यपि मूले 'अोदितश्च' इत्यत्र उच्छून इत्युदाहृतमेव, तथापि विशेषविवक्षया पुनरिहोपन्यासः। अत्र अल्विधित्वेऽपि हल इत्यारम्भसामदेिव पूर्वरूपस्य संप्रसारणत्वम् । न च नित्यत्वात्संप्रसारणपूर्वरूपयोः 'श्रयुकः किति' इत्येव निषेधसिद्धः श्विग्रहणं व्यर्थमिति वाच्यम् , 'श्रुयुकः किति' इत्यत्र ‘एकाच उपदेशे-' इत्यत उपदेशे इत्युनुवृत्तेः । तथा च उपदेशे उगन्तत्वाभावाद् निषेधाप्राप्तौ श्विग्रहणम् । अत एव स्वीत्यादौ उपदेशे उगन्तत्वमादाय इरिनषेधसिद्धिरित्यलम् । ईदित उदाहरति दीप्त इति । 'दीपी दीप्तौ' दिवादिः । ईदित्त्वान्नेट । गूढ इति । ऊदित्त्वेन वेटकत्वाद् 'यस्य विभाषा' इति नेट् । ढत्वधत्वष्टुत्वढलोपदीर्घाः । वनु वतः। तनु तत इति । 'उदितो वा' इति क्त्वायां वेटकत्वाद् 'यस्य विभाषा' इति नेट् । 'अनुदात्तोपदेश-' इति नकारलोपः । पतेः सनीति । 'पत्ल गतौ' अस्य 'तनिपतिदरिद्राणामुपसंख्यानम्' इति सनि वेटकत्वाद् 'यस्य विभाषा' इति निष्टायामिपिनषेधे प्राप्ते इत्यर्थः। पतितशब्दे इटं साधयितुं युक्त्यन्तरमाह सेऽसिचीति । 'कृती छेदने' 'चूती हिंसाश्रन्यनयोः' 'नृती गात्रविक्षेपे' एषामोदित्त्वं 'श्वीदितः-' इति इरिनषेधार्थमिति वक्त व्यम् । तत्तु न संभवति। एषां 'सेऽसिचि कृतचूतकृदतृदनृतः' इति सकारादौ वेट्कतया 'यस्य विभाषा' इत्येव निष्ठायां नित्यमिरिनषेधसिद्धः । ततश्च एषामीदित्करणाद् 'यस्य विभाषा' इति इरिनषेधस्य अनित्यत्वं विज्ञायते । एवं च कृतादीनां 'यस्य विभाषा' इति इरिनषेधस्य अभावसंभावनायां वीदितः-' इति इरिनषेधार्थमीदित्त्व. मर्थवत् । तथा च पतितशब्दे 'यस्य विभाषा' इत्यनित्यत्वान भवतीत्यर्थः । तेनेति । रुच दीप्तौ । 'गत्यर्थाकर्मक-' इति कर्तरि क्तः । क्रुष्टमिति । क्रुश अाह्वाने रोदने च । व्रश्वादिना षत्वे ष्टुत्वम् । गुधितमिति । गुध परिवेष्टने दिवादिः । संप्रसारणमिति । 'वचिखपि-' इत्यनेन । शून इति । टुओश्वि गतिवृष्योः । 'हलः' इति दीर्घः । 'अोदितश्च' इति निष्ठातस्य नः । गूढ इति । 'यस्य विभाषा' इति नेट , ढत्वधत्वष्टुत्वढलोपदीर्घाः । वतः, तत इति । 'अनुदात्तोपदेश-' इति नलोपः । सनि वेटकत्वादिति । 'तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः' इति वचनात् । कृन्तत्यादीनामिति । 'श्वीदित-' इति निष्ठायामनिटकार्यम् , कृती
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy