SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८] सिद्धान्तकौमुदी। [पूर्वकृदन्तनानित्यत्वज्ञापनाद्वा । तेन 'धावितमिभराजधिया' इत्यादि । 'यस्य विभाषा' (स ३०२५) इत्यत्रकाच इत्येव, दरिद्रितः । ३०५८ दुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्काविस्पष्टस्वरानायासभृशेषु । (७-२-१८) सुन्धादीन्यष्टावनिटकानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु । द्रवद्रग्यसंपृक्काः सनवो मन्थः, मन्थनदण्डश्च । क्षग्धो मन्थश्वेत् स्वान्तं मनः । धान्तं तमः । लग्नं सत्रम् , निष्ठानस्वमपि निपातनात् । म्लिष्टमविस्पष्टम् । विरिब्धः स्वरः। म्लेच्छ, रेभृ अनयोरुपधाया इव. 'यस्य विभाषा' इत्यस्यानित्यत्वज्ञापननेत्यर्थः । धावितमिति । 'स्वरतिसूति-' इति धूलो वेटकत्वेऽपि 'यस्य विभाषा' इति इरिनषेधो नेति भावः । ननु दरिद्राधातोः 'तनिपतिदरिद्राणामुपसंख्यानम्' इति सनि वेटकत्वाद् 'यस्य विभाषा' इति निष्ठायामिएिनषेधः स्यादित्यत आह यस्य विभाषत्यति । तुब्धस्वान्त । क्षुब्ध, खान्त, ध्वान्त, लम, म्लिष्ट, विरिब्ध, फाण्ट, बाढ एषामष्टानां द्वन्द्वात्प्रथमाबहुवचनम् । मन्थ, मनः, तमः, सक्त, अविस्पष्ट, स्वर, अनायास, भृश, एषामष्टानां द्वन्द्वात्सप्तमी । यथासंख्यमन्वयः । समुदायेनेति । मन्थादिष्वेते रूढाः । अवयवार्थाभिनिवेशो न कर्तव्य इत्याह द्रवद्रव्येति । अत्र याज्ञिकप्रसिद्धिरेव शरणीकर्तव्या । मन्थनदण्डश्चेति । 'वैशाखमन्थमन्थानमन्थानो मन्थ. दण्डके' इत्यमरः । तुन्ध इति । 'क्षुभ संचलने अस्मात् क्तः, इडभावो निपात्यते । 'भषस्तथो:-' इति धः, जश्त्वम् स्वान्तमिति । खनधातोः क्तः । 'अनुनासिकस्य क्वि-' इति दीर्घः, निपातनानेट । 'खान्तं हृन्मानसं मनः' इत्यमरः । ध्वान्तं तम इति । ध्वनेः क्तः । 'अनुनासिकस्य विव-' इति दीर्घः । 'अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः' । लग्नं सक्तमिति । संबद्धमित्यर्थः । लगेः क्तः, इडभावः । तत्र रदाभ्यां परत्वाभावात् कथं निष्ठानत्वमित्यत आह निष्ठानत्वमपि निपात. नादिति । म्लिष्टमविस्पष्टमिति । इडभावे 'वश्व-' इति षः । तकारस्य ष्टुत्वेन टः। अथ म्लिष्टमविस्पष्टम्' इत्यमरः । विरिब्धः स्वर इति । स्वरविशेष इत्यर्थः । 'रभृ शब्दे' अस्मात् क्तः, इडभावे 'झषस्तथोर्धः-' इति धः। उभयत्र धातुस्खरूपं प्रदर्शयन्नाह म्लेच्छ रेभृ अनयोरिति । इत्त्वमपीति । इडभावश्चेत्यर्थः । छेदने, घृती हिंसाप्रन्थनयोः, नृती गात्रविक्षेपे, इत्येतेषामोदित्त्वकरणेन 'यस्य विभाषा' इत्यस्यानित्यत्वज्ञापनाद्वा पतित इति सिद्धमित्यर्थः । क्षुब्ध । शुभ संचलने "झषस्तथो:-' इति धत्वम् । खन श्वन शब्दे । इडभावे 'अनुनासिकस्य विझलो:-' इति दीर्घः । लगे सो, म्लेच्छ अव्यक्त शब्दे, 'वश्व-' इति षत्वे ष्टुत्वम् । रेभृ
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy