SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६६ मपि निपात्यते ।। फाण्टम् अनायाससाध्यः कषायविशेषः । माधवस्तु नवनीतभावारप्रागवस्थापनं द्रव्यं फाण्टमिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र त भितम् । 'सुन्धो राजा' इति स्वागमशास्त्रस्थानित्यत्वात् । स्खनितम् । ध्वनितम् । लगितम् । म्लोच्छितम् । विरेभितम् । फणितम् । बाहितम् । ३०५६ घृषिशसी वैयात्ये । (७-२-१६) एतौ निष्ठायामविनय एवानिटी स्वः। पृष्टः । विशस्तः । अन्यत्र धर्षितः, विशसितः । भावादिकमणोस्तु वैयात्ये धषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । षेरादित्वे फलं चिन्स्य. फाण्टमिति । फणेः क्तः, इडभावः, निष्ठातस्य टत्वं च निपात्यते। तस्यासिद्धत्वाद् 'अनुनासिकस्य-' इति दीर्घः । 'अनायासकृतं फाण्टम्' इत्यमरः । वृत्तिकृन्मतमाह कषायविशेष इति । 'यदक्तमपिष्टं च कषायमुदकसंसर्गमात्राद्विभक्तरसमीषदुष्ण तत्फाण्टमित्युच्यते' इति वृत्तौ स्थितम् । वेदभाष्ये आहेति । 'तद्वै नवनीतं भवति घृतं वै देवानां फाण्टं मनुष्याणाम्' इति शतपथब्राह्मणव्याख्यावसरे श्राहेत्यर्थः । बाढं भृशमिति । 'बाह प्रयत्ने' अस्मात् क्वः, इडभावः, ढत्वधत्वष्टुत्वढलोपाः। अन्यत्र त्विति । मन्थादेर्वाच्यत्वाभाव इत्यर्थः । धृषि. शसी। वियातः अविनीतः, तस्य भावो वैयात्यम् । तत्र 'मि धृषा प्रागल्भ्ये' इत्यस्य आदित्त्वादेवेरिनषेधः सिद्धः। 'शसु हिंसायाम्' इत्यस्य तु 'उदितो वा' इति क्वायां वेटकत्वाद् 'यस्य विभाषा' इति इएिनषेधः सिद्धः । अतो नियमार्थमित्याह अविनय एवेति । धृष्टः । विशस्त इति । अविनीत इत्यर्थः। अन्यत्रेति । वैयात्याभावे इत्यर्थः । धर्षित इति । बलात्कृत इत्यर्थः । विशसित इति । हिंसित इत्यर्थः । अत्र नैयात्याभावादिरिनषेधो नेति भावः । ननु धृषेरादित्त्वाद् 'विभाषा भावादिकर्मणोः' इति भावे आदिकर्मणि च इड्विकल्प प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु । ततश्च भावादिकर्मभ्यामन्यत्र वैयात्याभावेऽपि 'पादितश्च' इति इगिनषेध एव स्यादित्यत आह भावादिकर्मणोस्त्विति। नास्तीति । अनभिधानादिति भावः । तत्र वृद्धसंमतिमाह अत एवेति । भावकर्मणोधूषेरनभिधानादेवेत्यर्थः । अन्यथा धृषेरादित्त्वाद् 'विभाषा भावादिकर्मणोः' इति भावे आदिकर्मणि च इविकल्प प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः। चिन्त्यशब्दे, फण गतौ । दीर्घः ष्टुत्वम् । वाह प्रयत्ने । इडभावे ढत्वधत्वष्टुत्वढलोपाः । अनायासशब्देन तत्साध्यो लक्ष्यत इत्याह अनायाससाध्य इति । क्षुण्णमौषधजातमुष्णोदके प्रक्षिप्य सद्योऽभिषुत्य पूत्वा यत्पीयते तत्फाण्टम्' इत्याहुः । वेदभाष्ये इति । 'तद्वै नवनीतं भवति घृतं देवानां फाण्टं मनुष्याणाम्' इति शतपथ
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy