________________
१००]
सिद्धान्तकौमुदी। [पूर्वकृदन्त. मिति हरदत्तः । माधवस्तु भावादिकर्मयोरवैयात्ये विकरुपमा सृष्टम् , धर्षितम् । प्रष्टः, प्रधर्षितः । ३०६० दृढः स्थूलबलयो। (७-२-२०) स्थूले बलवति च निपात्यते। 'रह हि वृद्धी', करोडभावः, तस्य तस्वम् , हस्य बोपः, इदिवो नलोपत्र । रहितो इंहितोऽन्यः । ३०६१ प्रभौ परिवृढः। मिति । धृषेरादित्त्वं हि न वैयात्ये आदित्त्वलक्षणेरिनषेधार्थम् 'धृषिशसी वैयात्ये' इत्येव सिद्धः । नापि वैयात्यादन्यत्र आदित्त्वलक्षणेरिनषेधार्थम् , धृषेःयात्य एव इएिनषेधनियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाभावात् । नापि धृषःयात्ये भावादिकमणोर्विषये 'विभाषा भावादिकमणोः' इति इड्विकल्पार्थम् , भावादिकर्मणोःयात्ये धृषेरनभिधानात्। तस्माद् धृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः । माधवस्त्विति । अवेयाये भावादिकर्मणोरनभिधाने प्रमाणाभावादिति भावः । तत्र अवयास भावे उदाहरति धृष्टम्, धर्षितमिति । आदिकर्मण्युदाहरति प्रधृष्टः, प्रधर्षित इति । दृढः स्थूलबलयोः। बलशब्दः अर्शश्राद्यजन्तो बलवत्परः, तदाह बलवति चेति । तस्येति । निष्ठातकारस्य ढत्वं निपात्यते इत्यर्थः । हस्य लोप इति । निपात्यते इति शेषः। इदित इति । अनिदितस्तु नलोपः सिद्ध एवेति भावः। ननु हस्य ढत्वे कृते 'झषस्तथो?ऽधः' इति तकारस्य धत्वे तस्य ष्टुत्वेन ढत्वे 'ढो ढे-' इति ढलोपे दृढ इति सिद्धम् । ततश्च इडभाव एव निपात्यताम् , न तु हकारलोपो ढत्वं चेति चेत् । मैवम् । तथा हि सति द्रढीयानित्यादौ ढलोपस्यासिद्धत्वेन ऋकारस्य संयोगपरतया लघुत्वाभावाद् र ऋतो हलालघोः' इति रभावो न स्यात् । अत्र हकारलोपस्य ढत्वस्य च निपातने तु ऋकारस्य न संयोग. परकत्वम् । अस्य हलोपस्य साप्तमिकत्वेन प्रसिद्धत्वाभावादिति भाष्ये स्पष्टम् । प्रभौ श्रुतेाख्यायामित्यर्थः। अन्यत्र विति । मन्थादेरवाच्यत्वे त्वित्यर्थः । धृषिशसी। विधृषा प्रागल्भ्ये । शसु हिंसायाम् । अनयोः 'आदितश्च' 'यस्य विभाषा' इति सूत्राभ्यामिटप्रतिषेधे सिद्धेऽप्यनयोर्वेयात्य एवानिट्वं नान्यत्रति नियमार्थमित्याह अविनये एवेति । विरुद्धं यातो वियातः अविनीतस्तस्य भावो वैयात्यम् । ननु धृषेः 'विभाषा भावादिकर्मणोः' इति विकल्प प्राप्ते नित्यार्थ कस्मान्न भवतीत्याशङ्कायामाह नास्तीति । अनभिधानादिति भावः। अत्र प्रमाणमाह अतएवेति । माधवस्त्विति । एवं च आदित्त्वस्य फलवत्त्वाद् हरदत्तोक्तं यचिन्त्यं तदेव चिन्त्यमिति भावः । दृढः स्थूल । बलमस्यास्तीति बलः, अर्श श्रादिभ्योऽच्' । तदाह बलवतीति । स्थूलो मांसलः स च निर्बलोऽपि, बलवास्तु कृशोऽपि दृढ इति फलितोऽर्थः । तस्येति । तकारस्येत्यर्थः । हस्येति । ननु 'हो ढः' इति ढत्वे ढोढे