________________
६४ ]
सिद्धान्तकौमुदी ।
[ पूर्वकृदन्त
1
भचितः । गतौ तु अक्तः । ३०४८ लुभो विमोहने । ( ७-२-५४) लुभः क्स्थानिष्टयोर्नित्यमिट् स्यान्न तु गायें । लुभितः । गायें तु लुब्धः । ३०४६ क्लिशः क्त्वानिष्ठयोः । ( ७-२-५० ) इड् वा स्यात् । 'क्लिश उपतापे' अस्य नित्यं प्राप्ते 'क्लिशू विबाधने' अस्य क्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः । क्लिशितः, क्लिष्ट: । ३०५० पूङश्च । ( ७-२-५१ ) पूढः क्वानिष्ठयोरिड् वा स्यात् । ३०५१ पूङः क्त्वा च । १-२-२२) पूङ: क्वा निष्ठा च सेट् किन्न स्यात् । पवितः पूतः । क्वाग्रहणमुत्तरार्थम् । 'नोपधात्-' ( सू ३३२४ ) इत्यत्र हि क्त्वैव संबध्यते । ३०५२ निष्ठा शीस्वि
"
1
वसिघसीनां च' इति षः । अञ्चः पूजायाम् । 'उदितो वा' इति क्त्वायां विकल्पे प्राप्ते निष्ठायां तु ‘यस्य विभाषा' इति निषेधे प्राप्ते वचनम् । अञ्चित इति । 'नाचेः पूजायाम्' इति नलोपनिषेधः । लुभो विमोहने । लुभ इति पञ्चमी । 'लुभ विमोहने' तुदादिः । विमोहनं व्याकुलीकरणमिति वृत्तिः । 'लुभ गाये' दिवादिः । अत्र तौदादिकस्यैव ग्रहणम् तस्यैव विमोहनार्थकत्वात् । न तु दैवादिकस्य तस्य गायकत्वात्, तदाह न तु गायें इति । 'तीषसह -' इति क्त्वायां विकल्पे प्राप्ते निष्ठायां तु 'यस्य विभाषा' इति निषेधे प्राप्ते वचनम् । लुभित इति । विमोहित इत्यर्थः । गार्ध्वे तु लुब्ध इति । अभिकाङक्षावानित्यर्थः । ‘मतिबुद्धिपूजार्थेभ्यश्व' इति कर्तरि क्तः । क्लिशः क्त्वानिष्ठयोः । इड् वा स्यादिति शेषः । 'स्वरतिसूति-' इत्यतो वेत्यनुवृत्तेरिति भावः । नित्यं प्राप्त इति । 'आधातुकस्येड्वलादेः' इत्यनेनेति भावः । विकल्पे सिद्ध इति । ऊदित्त्वादिति भावः । निष्ठायां निषेधे प्राप्ते इति । 'यस्य विभाषा' इत्यनेनेति भावः । पूङश्च । क्त्वानिष्ठयोरिति । 'क्लिशः क्त्वानिष्ठयोः' इत्यतस्तदनुवृत्तेरिति भावः । इड्वेति । 'खरतिसूति-' इत्यतो वाप्रहणस्य 'इरिनष्ठायाम्' इत्यत इट इत्यस्य चानुवृत्तेरिति भावः । 'श्रूयुकः -' इति निषेधे प्राप्ते विकल्पोऽयम् । पूङः क्त्वा च । 'न क्त्वा सेट्' इत्यतो न सेड् इत्यनुवर्तते । 'असंयोगात् -' इत्यतः किदिति 'निष्ठा शीड्-' इत्यतो निष्ठेति च, तदाह पूङः क्त्वा निष्ठा चेत्यादि । ननु 'न क्त्वा सेट्'
निषेधे प्राप्ते वचनम् । अञ्चित इति । 'नाचे: पूजायाम्' इति नलोपनिषेधः । अक्ल इति । 'अनिदिताम् -' इति नलोपः । लुभो । 'तीषसह -' इति क्त्वायां विकल्पे निष्ठायां निषेधे च प्राप्ते वचनम् । पूङश्च । 'श्रूयुकः किति' इति निषेधे प्राप्ते वचनम् । पूङः कत्वा च । 'न क्त्वा सेट्' इत्यनेनैव सिद्धे क्त्वाग्रहणमिह व्यर्थमित्यत आह उत्तरार्थमिति । क्त्वैवेति । न तु निष्ठा, चानुकृष्टत्वादिति