________________
प्रकरणम् ६६] बालमनोरमा तत्त्वबोधिनीसहिता। [६३
धातोः के तकारस्य नत्वं निपात्यते प्राधमयंग्यवहारे । ऋतमन्यत् । ३०४४ स्फायः स्फी निष्ठायाम् । (६-१-२२) स्फीतः। ३०४५ इरिनष्ठा. याम् । (७-२-४७) निरः कुषो निष्ठाया इट् स्यात् । 'यस्य विभाषा' (सू ३०२५) इति निषेधे प्रासे पुनर्विधिः । निष्कुषितः। ३०४६ वसतिशुधोरिन् । (७-२-५२) प्राभ्यां क्वानिष्ठयोनित्यमिट् स्यात् । उषितः । धितः ।३०४७ अञ्चेः पूजायाम् । (७-२-५३) पूजार्थादः क्त्वानिष्ठयोरिट् स्यात् । भिदिक्रियाविवक्षायां तु भित्तं भिन्नमिति भवतीति भाष्ये स्पष्टम् । ऋणमाधमण्यें । अधमर्णस्य कर्म आधमय॑म् । प्राधमर्यव्यवहारे इति । स च अन्यदीयं द्रव्यं गृहीतमियता कालेन इयत्या वृद्धया प्रतिदीयते इति संविदूपः, तस्मिन्विषये इत्यर्थः । ऋतमन्यदिति । सत्यमित्यर्थः। स्फायः स्फी। 'स्फायी वृद्धौ' अस्य स्फीभावः स्याद् निष्ठायां परत इत्यर्थः । इरिनष्ठायाम् । 'निरः कुषः' इति सूत्रमनुवर्तते, तदाह निर इति । ननु 'आर्धधातुकस्येट्-' इत्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह यस्येति । कुषधातोः तृजादौ 'निरः कुषः' इति पूर्वसूत्रेण वेटकत्वाद् 'यस्य विभाषा' इति प्राप्तस्येएिनषेधस्य बाधनार्थे पुनरिह विधानमित्यर्थः । इदित्यनुवर्तमाने पुनरिड्ग्रहणं तु 'खरतिसूति-' इत्यतो वाग्रहणानुवृत्तिनिवृत्तये । वसतितुधोरिट् । पञ्चम्यर्थे षष्ठी। क्त्वानिष्ठयोरिति । ‘क्लिशः क्त्वानिष्ठयोः' इत्यतः तदनुवृत्तेरिति भावः : नित्यमिति । इडित्यनुवर्तमाने पुनरिड्प्रहणस्य 'स्वरतिसूति-' इत्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः । 'एकाच उपदेशे-' इति इएिनषेधबाधनार्थमिदं सूत्रम् । उषित इति । यजादित्वात् संप्रसारणम् , 'शासिऋणमाघमण्ये । अधर्म दुःखप्रदमृणमस्य सोऽधमणः, तस्य भाव प्राधमण्यं तेन व्यवहारविशेषो लक्ष्यते । ततश्च उत्तमोऽपि सिध्यतीयाशयन व्याचष्टे अधमर्णव्यवहार इति । स व्यवहारो दातृग्रहीत्रोः संबन्धी भवतीत्युत्तमणेऽपि प्रयोगो न विरुध्यते । लक्षणायां तु 'धारेरुत्तमर्णः' इति निर्देशो लिङ्गम् । स्फायः स्फी । स्फायी वृद्धौ। कथं तर्हि स्फीतिकाम इति । स्फीतमाचष्टे इति एयन्तादच :, अल्लोपणिलोपौ । यस्यति । 'निरः कुषः' इति विकल्पितेट्त्वादिति भावः । उषित इति । यजादित्वात्संप्रसारणम् । 'शासिवसि-' इति षः। वसतीति शपा निर्देशः स्पष्टार्थः । वस्तेः सेटकत्वाद्भवितव्यमेवेटा । तधित इति। एवं च 'तस्यालमेषा क्षुधितस्य' इति प्रयोगो निर्वाध एवेति धेर्धातो वे किपि 'तारकादित्वादितच' इति धातुवृत्तिषु यदुक्तं तन्नादर्तव्यम् । समानन्यायतया क्रुधितादावुपयोक्ष्यत इति वा कथंचिनेयम् । अश्वेः । उदित्त्वात् क्त्वायां विकल्पे प्राप्ते निष्ठायां 'यस्य विभाषा' इति