SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ६२] सिद्धान्तकौमुदी। [पूर्वकृदन्तध्यातः । ख्यातः । पूर्वः । 'रास्लोपः' । मूर्तः । मत्तः। ३०४१ वित्तो भोगप्रत्यययोः (५-२-४-) विन्दतेनिष्ठाम्तस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्त धनम् । वित्तः पुरुषः । अनयोः किम्-विनः । 'विभाषा गम. हन-' (सू ३०१६) इति क्वसौ वेटवादिह नेट् । ३०४२ भित्तं शकलम् । (८-२-५६) मित्रमन्यत् । ३०४३ ऋणमाघमण्यें। (८-२-६०) एभ्य इति । ध्यात इति । ध्यैधातोः क्तः 'आदेचः-' इत्यात्वम् । अत्र 'संयोगादेरातः-' इति प्राप्तं नत्वं न । ख्यात इति । ख्याआदेशपक्षे यण्वत्त्वात् 'संयोगादेरातः-' इति प्राप्तं नत्वं न ।ख्शादेशस्य शस्य यत्वे तु यस्य णत्वप्रकरणगतस्यासिद्धत्वाधण्वत्त्वाभावात् 'संयोगादेरात:-' इति नत्वस्य न प्रसक्तिः । स्वतःसिद्धख्याधातोस्तु आर्धधातुके प्रयोगो नास्त्येवेति ख्याग्रहणं व्यर्थमेव । पूर्त इति । पृधातोः कः 'श्रयुकः किति' इति नेट् 'उदोष्ठयपूर्वस्य' इति उत्त्वम् , रपरत्वम् । इह 'रदाभ्याम्-' इति प्राप्तं नत्वं न । मुर्छाधातोः क्ले आह राल्लोप इति । छस्य लोप इति भावः । मूर्त इति । 'आदितश्च' इति नेट् । छलोपे 'रदाभ्याम्-' इति प्राप्तं नत्वं न । 'हलि च' इति दीर्घः । मत्त इति । 'मदी हर्षग्लेपनयोः' अस्मात् क्तः, 'श्वोदितो-' इति नेट् । अत्र 'रदास्याम्-' इति प्राप्तं नत्वं न । वित्तो भोग । भुज्यत इति भोगो भोग्यम् । प्रतीयते इति प्रत्ययः प्रख्यातः । अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम् , तदाह विन्दतेरिति । निपातोयमिति । 'नुदविदोन्द-' इति प्राप्तस्य पाक्षिकनत्वस्य अभावनिपातनमित्यर्थः । तस्य भोगप्रत्यययोः कदाऽपि नत्वं नेत्यर्थः । प्रतीते इति । प्रख्याते इत्यर्थः । वित्तः पुरुष इति । प्रख्यात इत्यर्थः । विन्न इति । लब्धश्चोरादिरित्यर्थः। अत्र 'यस्य विभाषा' इति इनिषेधमुपपादयति विभाषा गमति । एकाच इति निषेधाच्चेत्यपि बोध्यम् । मित्तं शकलम् । शकले वाच्ये भिदेः क्लस्य नत्वाभावो निपात्यते । शकलत्वजातिविशिष्टे अवयवार्थमनपेक्ष्य रूढोऽयम् । ततश्च भित्तशकलयोः पर्यायवान सहप्रयोगः । ययोः । मदी हर्षे। पूर्त इति । 'थ्रयुकः किति' इति इनिषेधः । लोपविधि स्मारयति राल्लोप इति । मूर्त इति । 'आदितश्च' इति नेट ।मत्त इति । 'श्वीदित:-' इति नेट । वेत्तेर्ज्ञानार्थकाद्विदेरिटा भाव्यं सत्तार्थकविदेर्विचारणार्थकविदेश्च भोगप्रत्यय. योतिन संभवतीत्याशयेनाह विन्दतेरिति । विद्ल लाभ इत्यस्येत्यर्थः । भुज्यत इति भोगः। प्रतीयत इति प्रत्यय इति कर्मसाधनावेताविति व्याचष्टे भोग्ये प्रतीते चार्थ इति । भित्तं शकलम् । भिदेः के 'रदाभ्याम्-' इति प्राप्तनत्वस्याभावो निपात्यते । 'मित्तं शकलखएडे वा' इत्यमरः । भिन्नमन्यदिति । विदीर्णमित्यर्थः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy