SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [८t परिस्कन्दः । 'प्राच्य इति किम्-परिष्कन्दः परिस्कन्दः । 'परेश्च' (सू २३६१) इति षस्वविकल्पः । 'स्तन्भेः' (सू २२७२) इति षत्वे प्राप्ते-३०२७ प्रतिस्तब्धनिस्तब्धौ च । (८-३-११४) अत्र षत्वं न स्यात् । ३०२८ दिवोऽविजिगीषायाम् । (८-२-४६) दिवो निष्ठातस्य नः स्यादविजिगीषायाम् । धूनः । विजिगीषायां तु द्यूतम् । ३०२६ निर्वाणोऽवाते । (८-२-५०) अवाते इति च्छेदः । निःपूर्वाद्वातेनिष्ठातस्य नत्वं स्थाद्वातश्चेत्कर्ता न । निर्वाणो. ऽग्निर्मुनिर्वा । वाते तु निर्वातो वातः । ३०३० शुषः कः। (८-२-५१) निष्ठात इत्येव । शुष्कः । ३०३१ पचो वः। (८-२-५२ ) पक्कः । ३०३२ तायो मः। (८-२-५३) क्षामः । ३०३३ स्त्यः प्रपूर्वस्य । (६-१-२३) 'परेश्च' इति पूर्वसूत्रम् । परेः परस्य स्कन्देः सस्य षो वा स्यादिति तदर्थः । तेन षत्वविकल्प प्राप्ते प्राच्यभरतेषु षत्वाभावो निपात्यत इत्यर्थः । परिस्कन्द इति । परिपूर्वात् स्कन्देनिष्ठायास्तकारलोपः। दिवो। अविजिगीषायामिति छेदः । द्यून इति । स्तुत इत्यर्थः । 'च्छ्वो:-' इत्यूर् । विजिगीषायां तु द्यूतमिति । द्यूतस्य विजिगीषया प्रवृत्तेरिति भावः । निर्वाणोऽवात । कर्ता नेति । निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च । तस्मिन् धात्वर्थे यदि वायुः कर्ता तदा नत्वं नेत्यर्थः । निर्वाणोऽग्निर्मुनिर्वेति । नष्ट उपरत इति क्रमेणार्थः । 'गत्यर्थाकर्मक-' इत्यादिना कर्तरि क्तः । निर्वातो वात इति । अत्र वातस्य कर्तृत्वानत्वं नेति भावः । निर्वाणो दीपो वातेन इत्यत्र तु वातस्य करणत्वेन विवक्षितत्वात्कर्तृत्वाभावाद् नत्वं निर्वाह्यम् । भावे तु नितिं वातेन । शुषः कः। निष्ठात इति । शुषः परस्य निष्ठातस्य कः स्यादिति फलितम् । पचो वः। पचेः परस्य निष्ठातस्य वः स्यादित्यर्थः। पक्व इति । वत्वस्यासिद्धत्वात् कुत्वम् । क्षायो मः। 'बै क्षये' इत्यस्मात् परस्य निष्ठातस्य मः स्यादित्यर्थः। क्षाम इति । 'प्रादेच:-' इत्यात्वम् । 'गत्यर्थाकर्मक-' इति कर्तरि क्तः। क्षीण इत्यर्थः । अन्तर्भावितण्यर्थत्वे तुम्नादिषु नृमनशब्दपाठाहकारं निमित्तीकृत्यापि 'अट्कुप्वाङ्-' इति णत्वं भवत्येवेति दिक् । परिस्कन्दः । अचि निपातनम् । अथवा निष्टातकारस्य लोप इति काशिका । द्यून इति । 'च्छोः शूड्-' इत्यूत् । क्षीण इत्यर्थः । द्यूतमिति । विजिगीषया हि तत्राक्षाः पात्यन्ते इति गम्यते विजिगीषा। निर्वाणोऽवाते । वा गतिगन्धनयोः, निःपूर्वादस्मानिष्ठातस्य नत्वे णत्वम् । वातश्चेत्कर्ता नेति । एवं च वातेन हेतुना निर्वाणो दीप इत्यत्र निषेधो नेत्याहुः । निर्वात इति । 'गत्यर्थाकर्मक-' इति कर्तरि क्तः। नितरां वातो गत इत्यर्थः । शुष्क इति । शुष शोषणे।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy