SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८८] सिद्धान्तकौमुदी। [पूर्वकृदन्तदाने । ३०२५ यस्य विभाषा। (७-२-१५ ) यस्य कचिद्विभाषयेड्विहितस्ततो निष्ठाया इएन स्यात् । 'उदितो वा' (सू ३३२८) इति क्वायां वेट्वादिह नेट समक्नः । अनपादाने किम्-उदक्तमुदकं कूपात् । नस्वस्यासिद्धस्वाद् 'नश्च-' (सू २६४ ) इति षस्वे प्राप्ते, 'निष्ठादेशः षस्वस्वरप्रत्ययेड्विधिषु सिद्धो वाच्यः (वा ४७७३)। वृक्यः । वृक्णवान् । ३०२६ परिस्कन्दः प्राच्यभरतेषु। (८-३-७५) पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते । व्यवस्थितेति । अञ्चोऽनपादाने । न त्वपादाने इति । अपादानसमभिव्या. हारे असतीत्यर्थः । यस्य विभाषा । यस्येति । यम्मादिस्यर्थः । निष्ठाया इएन स्यादिति । 'श्वोदितः-' इत्यतो निष्टायामिति 'नेड्वशि-' इत्यतो नेडिति चानुवर्तत इति भावः । नन्वञ्चेर्नित्यं सेटकत्वात् कथं तस्य क्वचिद्वेटकत्वमित्यत आह उदितो वेति । समक् इति। संगत इत्यर्थः । संपूर्वाद् अञ्चुधातोः क्तः 'आर्धधातुकस्येट्-' इति प्राप्तस्य इटो निषेधः । 'अनिदिताम्-' इति नलोपः । चस्य कुत्वम् । उदक्तमुदकं कूपादिति । उद्धृतमित्यर्थः । अत्रापादानसमभिव्याहारसत्त्वाद् नत्वं नेति भावः । 'ओ वश्चू छेदने' सस्य श्चुत्वेन निर्देशः, अस्मात्तः, 'अहिज्या-' इति संप्रसारणम्, ऊदित्त्वेन वेटकत्वादिह 'यस्य विभाषा' इति नेट, चस्य कुत्वेन कः, 'ओदितश्च' इति निशानत्वम् , तस्यासिद्धत्वेन झल्परत्वात् 'स्को:-' इति सलोपः, णत्वम् , वृक्ण इति रूपमिति स्थितिः । तत्र नत्वस्यासिद्धत्वेन झल्परत्वाद् ‘वश्व-' इति षत्वं स्यादित्यत आह निष्ठादेशः षत्वेति । तथा च 'वश्वभ्रस्जसृजमृजयज. राजभ्राजच्छशां षः' इति षत्वे कर्तव्ये नत्वस्यासिद्धत्वाभावेन झल्परकत्वाभावान्न षत्वमित्यर्थः । स्वरप्रत्ययेड्विधिपूदाहरणानि भाष्ये स्पष्टानि । परिस्कन्दः प्राच्यभरतेषु । 'अपदान्तस्य नूर्धन्यः' इत्यधिकारे इदं सूत्रम् । पूर्वेणेति । गतावित्यस्य 'आदेच-' इत्यात्वे 'संयोगादेरातः-' इति निष्ठातस्य नः । यस्य विभाषा । यस्येत्यार्धधातुकापेक्षया षष्ठी । यदीयस्यार्धधातुकस्येत्यर्थः । समन इति । अञ्चु गतिपूजनयोः संपूर्वः, नत्वस्यासिद्धत्वात् । झलि परतः कुत्वम् । उदक्तमिति । उद्धृतमित्यर्थः । व्यक्तमित्येतत्तु अजू व्यक्तीत्यस्य न त्वचेः । तेनात्र नत्वाभावः । वृक्ण इति । ओवश्च छेदने, 'अहिज्या-' इति संप्रसारणम् । नत्वस्यासिद्धत्वात् 'स्को:-' इति सलोपः 'चोः कुः' इति कुत्वं च । ऊदित्त्वेन वेटकत्वाद् 'यस्य विभाषा' इति निष्ठाया इडभावः । नुनिधिलादेशविनामेषु वर्णैकदेशस्यापि वर्णत्वेन प्रहणाहकारैकदेशो रेफो निमित्तमिति अटकुप्वाङ्-' इति नस्य णत्वम् । णत्वस्य बिनाम इति प्राचां संज्ञा। 'ऋवर्णानस्य णत्वम्-' इति यथाश्रुतपक्षेऽपि णत्वनिषेधार्थ
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy