________________
प्रकरणम् ६६] बालमनोरमा-तत्त्वबोधिनीसहिता।
८०
तख नः स्वादस्पर्शेऽर्थे । 'हलः' (स २५५६) इति दीर्घः । शीनं घृतम् । अस्पर्श किम्-शीतं जलम् । द्रवमूर्तिस्पर्शयोः किम्-संश्यानो वृश्चिकः । शीतासंकुचित इत्यर्थः । ३०२२ प्रतेश्च । (६-१-२५) प्रतिपूर्वस्व श्वः संप्रसारणं स्यान्निटायाम् । प्रतिशीतः । ३०२३ विभाषाभ्यवपूर्वस्य । (६१-२६) श्यः संप्रसारणं वा स्यात् । अभिश्यानम् अभिशीनं घृतम् । भवश्यानः अवशीनो वृश्चिकः । व्यवस्थितविभाषेयम् । तेनेह न, समवश्यानः । ३०२४ अञ्चोऽनपादाने । (८-२-४८) भयो विप्रतसमः स्वान्न स्वपा. स्पर्शश्चेति विग्रहः । मूर्नावित्यस्य विवरणम् काठिन्य इति । संप्रसारणं स्यादिति । 'ध्यछः संप्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः । तथा च श्यैकः के पात्वे संप्रसारणे पूर्वरूपे शित इति स्थिते श्योऽस्पर्श । श्यः अस्पर्श इति च्छेदः । दीर्घ इति । नत्वात्प्रागेव 'हलः' इति दीर्घ इत्युचितम्, नत्वस्य त्रैपादिकत्वात् । शीनं घृतमिति । घनीभूतमित्यर्थः । धातूनामनेकार्थत्वात् । यद्यपि घृतेऽप्यनुष्णस्पर्शोs. स्त्येव । तथापि शीताख्यस्पर्शविशेष एव विवक्षित इति भावः। अस्पर्श किमिति । श्यैडो निष्ठातस्य नत्वं स्यादित्येतावदेवास्त्वित्यर्थः । शीतं जलमिति । शीतस्पर्शवदित्यर्थः । अत्र 'द्रवमूर्ति-' इति संप्रसारणमेव, न तु निष्ठानत्वमित्यर्थः । एवं च 'द्रवमूर्तिस्पर्शयो:-' इत्यस्य स्पर्श इदमुदाहरणम् । 'श्योऽस्पर्श' इत्यस्य तु प्रत्युदाहरणमिति बोध्यम् । सूत्रयोः स्पर्शशब्दः प्रधानभूते गुणभूते च वर्तते । तत्र गुणभूते विशेष्यनिनः । शीता श्रापः, शीतं जलमित्यादि । यदा तु स्पर्शविशेषो गुणः प्राधान्येन विवक्षितः तदा क्लीबत्वमेव । 'शीतं गुण' इत्यमरः। संप्रसारणविधौ पृच्छति द्रवमूर्तिस्पर्शयोकिमिति। संश्यान इति। अत्र स्पर्शस्याप्रतीतेः न संप्रसारणम्। नत्वं तु भवत्येवेति भावः। प्रतेश्च । द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि संप्रसारणप्राप्त्यर्थमिदमा प्रतिशीन इति । प्रतिगत इत्यर्थः । अत्र 'श्योऽस्पर्श' इति नत्वम्। विभाषा । श्यक इति शेषः । संप्रसारणं वा स्यादिति । शेषपूरणमिदम् । द्रवमूर्तिस्पर्शयोनित्यं संप्रसारण प्राप्ते ततोऽन्यत्राप्राप्त विभाषेयम् । अभिश्यानं घृतमिति । अत्र द्रवमूर्ती संप्रमरणविकल्पः । अवश्याना, अवशीनो पृश्चिक इति । द्रवमूर्तिस्पर्धाभावेऽपि संप्रसारणविकल्पः । समवश्यान इत्यत्रापि संप्रसारणविकल्पमाश्याह नत्वार्थः पाठोऽनर्थकः स्यादिति भावः। न च ओदिन्मध्ये पाठसामर्थ्यादिटा व्यवधाने नत्वं भवेदिति वैपरीय किं न स्यादिति शङ्कयम्, लक्ष्यानुरोधेन इडभावकल्पनाया एव न्याय्यत्वात् । अन्ये तु सत्यपि इडागमे सवर्णदीर्घ चैकादेशस्य पूर्वान्तत्वेन ग्रहणादिटा व्यवधानं नास्त्येवतीष्टं सिध्यतीत्याहुः । संश्यान इति । श्यैक