________________
प्रकरणम् ६६ ] बालमनोरमा तत्त्वबोधिनीसहिता ।
[ ८५
1
,
२३३० ) रपरः, णत्वम् शीर्णः । बहिरङ्गस्वेन वृद्धेरसिद्धत्वान्नेह - कृतस्यापत्यं कार्तिः । छिन्नः । भिन्नः । ३०१७ संयोगादेरातो धातोर्यवतः । ( ६-२-४३) निष्ठातस्य नः स्यात् । द्वाणः । स्स्थानः । ग्लानः । ३०१८ ल्वादिभ्यः । ( ८-२-४४ ) एकविंशतेर्लुजादिभ्यः प्राग्वत् । लूनः । ज्या, 'ग्रहिज्या- ' ( सू २४१२ ) जीनः । 'दुग्वोर्दीर्घश्व' ( वा ४८३२ ) 'दु गतौ' दून: । 'टु दु उपतापे' इत्ययं तु न गृह्यते, सानुबन्धकत्वात् । 'मृदुतया दुतया' इति मावः । गूनः । 'पूञो विनाशे' ( वा ४८३३ ) । पूना यवाः, विनष्टा इत्यर्थः । पूतमन्यत् । 'सिनोतेर्घासकर्मकर्तृकस्य' ( वा ४८३४ ) । सिनो ग्रासः । प्रास इति
सूत्रे द इति षष्ठयन्तमिति भावः । चरितम् उदितम् इत्यत्र तु नत्वं न, निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्यां परत्वाभावात् । रेफात्परस्योदाहरति शृ इति । शृधातोः क्तप्रत्ययसूचनमिदम् । ननु कृतस्यापत्यं कार्तिः । अत इञ्, आदिवृद्धिः, रपरत्वम् । अत्र निष्ठातकारस्य रेफात् परस्य नत्वं स्यादित्यत आह बहिरङ्गत्वेनेति । दात्परस्योदाहरति छिन्नो भिन्न इति । अत्र निष्ठातकारस्य धात्वन्तदकारस्य च नत्वमिति भावः । संयोगादेः । निष्ठातस्य नः स्यादिति । शेषपूरणमिदम् । द्वारा इति । 'द्रा कुत्सायां गतौ' श्रस्मात् क्तः, नत्वम् णत्वम् । ग्लान इति । ''लै हर्षक्षये' 'आदेचः -' इत्यात्वे नत्वम् । ल्वादिभ्यः । एकविंशतेरिति । क्रयादिषु प्वाद्रयो द्वाविंशतिः, तेषु श्रद्यं पूर्वं विहाय ल्वादिभ्य एकविंशतेरित्यर्थः । ज्येति । धातुसूचनम् । ग्रहिज्येति । संप्रसारणसूचनम् । जीन इति । ज्या त इति स्थिते 'संयोगादे:-' इति निष्ठानत्वस्यासिद्धत्वात् ततः प्रागेव संप्रसारणे पूर्वरूपे च कृते आतः परत्वाभावात् ‘संयोगादेरातः - ' इति नत्वस्याप्राप्तावनेन नत्वम् । दुग्वोदीर्घश्चेति । वार्तिकमिदम् । दु गु श्राभ्यां परस्य निष्ठातस्य नत्वं प्रकृतेर्दीर्घश्व इत्यर्थः । 'मृदुतया दुतया' इति माघकाव्ये दुतशब्दं साधयितुमाह टु दु उपतापे इत्यादि । गून इति । गुधातोः क्ले दीर्घः । पूञो विनाशे इति । वार्तिकमिदम्
1
न, तकारस्येटा व्यवहितत्वात्तदेतदाह परस्य निष्ठातस्येति । बहिरङ्गत्वेनेति । निष्ठातकाराद्वहिर्भूततद्धितमित्प्रत्ययमाश्रित्याङ्गस्यादेरचो विधीयमानत्वादवृद्धिर्बहिरजेति भावः । द्वाण इति । द्रा कुत्सायां गतौ । ग्लानः । म्लान इति । ग्लै म्ले हर्षये । एकविंशतेरिति । क्रयादिषु प्वादयो द्वाविंशतिः पठ्यन्ते, तत्र पूर्वं विहाय ल्वादयो ज्ञेयाः । जीन इति । हल इति दीर्घः । सिद्धत्वान्नित्यत्वान्च 'प्रहिज्या-' इति संप्रसारणे कृते 'संयोगादेरातः-' इत्यस्याप्राप्तिः । गून इति । गु पुरीषोत्सर्गे । विनष्टा इति । धातूनामनेकार्थत्वात्पञ् पवन इत्यस्य विनाशेऽपि